________________ 488 काव्यमाला / आदरो यत्रेदृशं चाटु कौशलं च / 'मूलकर्म तु कार्मणम्' इत्यमरः / अत्र रूपादयो गुणा अन्त्यपदस्थितचकारेण गमनरूपक्रियायां समुच्चयेन निवेशिता इति समुच्चयः / तदभावे दोषमाह-अगमन्निति / असमुच्चये बहुवचमं द्वन्द्वश्च स्यादित्यर्थः / इदमेव गुणानां कार्मणत्वम् / जात्या समुच्चयेन जातिसमुच्चयोऽपीत्याह-कार्मणत्वमिति // ___ उभयपदाश्रय उत्तरपदाश्रितद्योतकत्वेन द्रव्यगुणानां क्रियासमुच्चयो यथा'विचिन्त्यमानं मनसापि देहिनामिदं हि लोकेषु चकाम्ति दुर्लभम् / निशा सचन्द्रा मदिरा च सोत्पला प्रियानुरागोऽभिनव च यौवनम् / / ' अत्र निशा मदिरा च द्रव्ये, अनुरागो यौवनं च गुणो, बहुष्वपि पदेषु द्वन्द्वे सत्यपि उत्तरपदाश्रयनिवेशिना चकारेण चकास्तीत्येकस्यां क्रियायां निवेश्यन्ते; तेन चकासतीति बहुवचनं समासश्च न स्यात् / अयमेव च दुर्लभमित्यपेक्षायां द्रव्यगुणानां गुणसमुच्चयो भवति / तेऽमी त्रयोऽपि शुद्धाः // विचिन्त्येत्यादि / इदं लोकेषु भुवनेषु मध्ये देहिनां प्राणिनां विचिन्त्यमानं मनसापि दुर्लभमेव चकास्ति / हिरवधारणे / किं तत् / सचन्द्रः त्रिः, सकमलं मद्यम् , प्रियाया अनुरागः प्रीतिः, अभिनवं यौवनं च / अत्र न्द्वशो युगलत्वेनान्यपदस्थितचकारेणैकक्रियानिवेशः / तदभावे दोषमाह-तेनेति / दुर्लभत्वविवक्षया दुःखमयत्वे गुणसमुच्चयोऽपीत्याह-अयमिति // मिश्रः पुनरुभयपदाश्रयवहुपदाश्रयश्च भवति / यथा'आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च / अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् 140' अत्रादित्यचन्द्रादयो द्रव्यविशेषा उत्तरपदनिवेशिना प्रतिपदनिवेशिना च चकारेण जानातीत्येकस्यां क्रियायां संनिवेश्यन्ते / तेन च बहुवचनाभावे समासाभावे चैष मिश्रः समुच्चयभेदो भवति / /