________________ 4 परिच्छेदः।] सरखतीकण्ठामरणम् / 487 चाकरेणैकस्यामुवासेति क्रियायां समुच्चयेन निवेश्यन्ते / तेन गुणेषु बहुवचनं न भवति, करुणाकृतज्ञतादीनां द्वन्द्वसमासश्च न भवति यस्मिनित्यपेक्षायां चायमेव गुणानां द्रव्यसमुच्चयो भवति // अप्राकृत इत्यादि / स नृपतिर्विस्मयाय कथं नास्तु / कीदृशः / अप्राकृतो. ऽनीचः। महाजन इति यावत् / 'नीचः प्राकृतश्च पृथग्जनः' इत्यमरः / यस्मिन् करुणा दया, कृतज्ञता विज्ञता, लक्ष्मीः संपत्तिः, सात्त्विकगुणेन जाज्वल्यमानं तेजश्च, धर्मः सुकृतं, मानो विनयः, पराक्रमश्चोवास वसति स्म / इह कारुणिकस्य करुणामात्रप्रवृत्त्या कृतज्ञतायाः साहजिकोऽभाव इति / तथा चास्मिन्नुभयमिति महाजनतास्य सूचिता / तथाप्यलक्ष्मीकस्य न किमपि श्लाघाविषय इति सलक्ष्मीकतोक्ता / तथापि निःसात्त्विकस्य कुतो महाजनत्वमतः सात्त्विकगुणाधिक्यमुक्तम् / निष्प्रतापस्य सर्वमुक्तं लक्षणमशोभाकरमेव भवतीति तेजस आधिक्यमुक्तम् / भवतु यथोक्तगुणसंपत्तिः, अधार्मिके सर्वे गुणा विगुणायन्ते / तदर्थमाह-धर्मश्चेति / मानविनयपराक्रमाः प्रत्येकं महापुरुषे विशेषगुणा इति तेऽप्युक्ता इति / अत्रानेकपदाश्रितचकारैरेकक्रियायां नानागुणाः समुच्चयेन निवेशिता इति समुच्चयता // तदभावे दोषमाह-तेनेति / असमुच्चयनिवेशे करुणादय ऊषुरिति स्यादित्यर्थः / यस्मिनिति / यदि यस्मिन्नित्यैकद्रव्ये गुणसमुच्चयविवक्षात्र तदा सोऽपि भवतीत्यर्थः // बहुपदाश्रय एवोत्तरपदाश्रितद्योतकत्वेन गुणानां क्रियासमुच्चयो यथा'रूपमप्रतिविधानमनोझं प्रेम कार्यमनपेक्ष्य विकाशि / चाटु चाकृतकसंभ्रममासां कांर्मणत्वमगमद्रमणेषु // 138 // ' अत्र रूपं प्रेम चाटु चेति बहवो गुणा उत्तरपदाश्रयेण चकारेणागमदित्येकस्यां क्रियायां समुच्चयेन निवेश्यन्ते, तेनागमन्निति बहुवचनं द्वन्द्वो वा न स्यात् / कार्मणत्वमित्यपेक्षायां चायमेव गुणानां जातिसमुच्चयो भवति // रूपमित्यादि / आसां स्त्रीणां रमणेषु विषये इदमिदं कार्मणत्वं वशीकरणे मुलकर्मत्वमगमत् ययौ / अप्रतिविधानेनानिर्बन्धेन / सहजेनेति यावत् / * मनोज्ञरूपं कार्यमनपेक्ष्य विकाशि सहजप्रकाशवत्प्रेम, अकृतकः खाभाविकः संभ्रम