________________ 486 .. काव्यमाला / अत्र चकाराभ्यां द्रव्ययोरेकक्रियानिवेशनात्समुच्चयः / यदि समुच्चयेन निवेशनं न स्यात्तदा दोषमाह-तेनेति / अन्योन्यनिरपेक्षतया द्विवचनं द्वन्द्वश्च स्यादित्यर्थः // द्विपदाश्रय एवोत्तरपदाश्रितद्योतकेन क्रिययोर्द्रव्यसमुच्चयो यथा'निकामं क्षामाङ्गी सरसकदलीगर्भसुभगा कलाशेषा मूर्तिः शशिन इव नेत्रोत्सवकरी / अवस्थामापन्ना मदनदहनोद्दाहविधुरा मियं नः कल्याणी रमयति मनः कम्पयति च 136' अत्र रमयति कम्पयति चेति द्वे क्रिये उत्तरपदवर्तिना चकारेणैकस्मिन्मनोलक्षणे द्रव्ये कर्मणि समुच्चयेनैककालमेव निवेशिते; तेनायमन्वाचयो न भवति // निकाममित्यादि / इयं मालती नोऽस्माकं मनो रमयति कम्पयति च / कीदृशी / मदन एव दहनोऽग्निस्तस्मादुद्दाहः प्रकृष्टदाहस्तेन विधुरा विह्वलामवस्था दशामापन्ना प्राप्ता / अत एव निकाममत्यर्थं क्षीणाङ्गी। सरसो यः कदल्या गर्भो मजा तद्वत्सुभगा मनोहरा / अनेन पाण्डुरता तीक्ष्णता चोक्ता / चन्द्रस्य कलाशेषा कलनामात्रावस्थिता मूर्तिरिव नेत्रानन्दजनिका कल्याणी कुशलवती / कदल्या गर्भपदेनातिपाण्डुरत्वकोमलत्वे ध्वनिते / प्रकृतकार्यसंपादकतया रमयति / अतिपीडयारिष्टाशङ्कित्वान्मनःकम्पनमिहेत्याशयः / अत्र कम्पयति चेत्युत्तरपदस्थेन चकारेणेकत्र मनोलक्षणे द्रव्ये क्रियाद्वयनिवेशनात्समुच्चयः / समुच्चयेन निवेशनाभावे दोषमाह-तेनेति / परस्परनैरपेक्ष्ये उत्तरपदस्थचकारेणान्वाचयापत्तिरित्यर्थः // बहुपदाश्रयः प्रतिपदाश्रितद्योतकत्वेन गुणानां क्रियासमुच्चयो यथा 'अप्राकृतस्तु कथमस्तु न विस्मयाय यस्मिन्नुवास करुणा च कृतज्ञता च / लक्ष्मीश्च सात्त्विकगुणज्वलितं च तेजो धर्मश्च मानविजयौ च पराक्रमश्च / / 137 // ' अत्र करुणा च कृतज्ञता चेत्यादयो गुणाः प्रत्येकं बहुपदाश्रयत्वेन