________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 485 इतरेतरयोमो यः समाहारो य उच्यते / अन्वाचय इहान्यो यः सोऽपि नान्यः समुच्चयात् // 6 // द्विपदाश्रयश्चापि स स्यात्स स्याद्वहुपदाश्रयः / उभयाश्रयश्च स स्यात्स स्यादनुभयाश्रयः // 62 // त्रयः प्रतिपदं वा स्यु?तकैरुत्तरत्र वा / पदैः शुद्धाश्च मिश्राश्च तुरीयो द्योतकं विना // 63 // द्रव्येति / द्रव्यादीनामेकक्रियादिसमावेशः समुच्चयः। इतरेतरयोगादीनां समुचयाभेदमाह-इतरेति / इतरेतरयोगः परस्परापेक्षावयवभेदानुगतः समुच्चयः / समाहारस्तिरोहितावयवभेदः संहतिप्रधानः समुच्चय एक, अन्वाचयो यत्रैकं प्रधानमन्यदप्रधानमन्वीयते सः / समुच्चयं विभजते-द्विपदेति / उभयं द्विपदबहुपदे। अनुभयमद्विपदबहुपदे / एषु मध्ये आद्यास्त्रयः प्रतिपदं वोत्तरत्र वा पदद्योतकैः सह संभवन्तीत्याह-त्रय इति / त्रय एव शुद्धा मिश्राश्च भवन्ति / तुरीयोऽनुभयाश्रयः समुच्चयो द्योतकं चकारादिकं विनैव भवति // तत्र द्विपदाश्रयः प्रतिपदाश्रितद्योतकत्वेन द्रव्ययोः क्रियासमुच्चयो यथा 'निर्यता परिजनेन बोधितः स्फूर्जमानरुचिरुल्लसद्दशः / द्वारसंवलनमांसलोऽधिकं दीपकश्च मदनश्च दिद्युते // 135 // ' ___ अत्र दीपकश्च मदनश्चेति द्वे द्रव्ये प्रतिपदं चकारेणैकस्यां दिद्युते इति क्रियायां समुच्चयेन निवेशिते; तेन दिद्युताते इति द्विवचनम् , दीपकमदनाविति चार्थे द्वन्द्वश्च न भवति // निर्यतेत्यादि / दीपकः प्रशस्तदीपश्च मदनः कामश्चाधिकं दिद्युते दीप्तो बभूव / कीदृशः। नियता गच्छता सेवकेन सख्यादिना च बोधितः प्रकाशितो जागरितश्च। स्फूर्जमाना स्फुरन्ती रुचिर्दीप्तिरनुरागश्च यस्य सः। उल्लसन्ती दशा वर्तिरवस्था च यस्य सः / द्वारे गृहद्वारे मदनबोधकभावे च संवलनं मिलनं तेन मांसलः स्फीतः / दीपक इति प्रशंसायां कन् / दिद्युत इति 'द्युत दीप्तौ' इत्यस्य लिटि रूपम् /