________________ 184 __ काव्यमाला / धैर्यादीनां बहूनां वहनक्रियायामेकस्यामेवाविवेकतः कर्मभूतानामावेशेनाविविक्तकर्मक्रियासमावेशा नाम ससादृश्या सहोक्तिः // . धीरं वेत्यादि / “धैर्यमिव जलसमूहं तिमिनिवहमिवं सपक्षपर्वतलोकम् / नदीस्रोतांसीव तरङ्गान् रत्नानीव गुरुकगुणशतानि वहन्तम् // " इह समुद्रं कीदृशम् / धैर्यमिव जलसमूहं वहन्तम् , तिमिनिवहमिव मत्स्य विशेषसमूहमिव सपक्षं पक्षयुक्तम् , स्वपक्षं खमित्रं वा पर्वतलोकं मैनाकादिकं वहन्तम् , नदीप्रवाहानिव तरङ्गान् वहन्तम् , रत्रानीव गुरुकगुणशतानि महत्त्वादीनि वहन्तम् / 'अस्ति मत्स्यस्तिमि म शतयोजनविस्तृतः / ' इति रामायणम् / 'समूहेऽपि मतो लोकः' इति रत्नकोषः / गुरुकेति स्वार्थे कन् / अत्र धैर्यजलसमूहादीनां मिथः सादृश्यं व्यक्तमेव प्रतीयमानमिवशब्देन द्योत्सते, साहित्यं च वाक्यार्थतया गम्यत इति सहोक्तिरियं सादृश्यवती // ग्रहणप्रयोजनमाहआदिग्रहणाद्गुणसमावेशेऽपि गुणिनः ससादृश्या यथा 'सह दीर्घा मम श्वासैरिमाः संप्रति रात्रयः / पाण्डुराश्च ममैवाङ्गैः सह ताश्चन्द्रभूषणाः // 134 // " अत्र रात्रयो दीर्घाः पाण्डुराश्चेति दैर्घ्यपाण्डुरत्वगुणयोरविवेकेन रात्रिषु रात्रीणां च तयोः श्वासैरङ्गैश्च सह समावेशो दृश्यते; सेयमविविक्तगुणसमावेशानामेवाद्यप्रयोगेऽपि ससादृश्या सहोक्तिः / ___ आदीति // सहेत्यादि / इमा रात्रयः संप्रति विरहावस्थायां मम सह दीर्घाः, ममैवाङ्गैः सह चन्द्रभूषणाश्चन्द्रालंकारास्ता रात्रयः पाण्डुराश्च / चन्द्रभूषणत्वं रात्रीणां पाण्डुरत्वे हेतुः / विरहदशायां खेदान्निःश्वासदीर्घता, अङ्गपाण्डिमा, रात्रिदीर्घता च भवति / अत्र दीर्घत्वपाण्डुत्वगुणयोः समावेशः सादृश्यगर्भ एवेति ससादृश्येयं सहोक्तिः // इति सहोक्त्यलंकारनिरूपणम् // समुच्चयालंकारनिरूपणम् / समुच्चयलक्षणमाह द्रव्यक्रियागुणादीनां क्रियाद्रव्यगुणादिषु / / निवेशनमनेकेषामेकतः स्यात्समुच्चयः // 60 //