________________ 4 परिच्छेदः / ] सरस्वतीकण्ठाभरणम् / 483 '. कर्तृणामविविक्तक्रियासमावेशे यथा___ 'धीरेण समं जामा हिअएण समं अणिट्ठिआ उवएसा / उच्छाहेण सह भुआ बाहेण समं गलन्ति से उल्लावा // 1321 [धैर्येण समं यामा हृदयेन सममनिष्ठिता उपदेशाः / - उत्साहेन सह भुजौ बाष्पेण समं गलन्त्यस्सा उल्लापाः // ] अत्र यामादीनां बहूनां धैर्यादिभिः सह गलनक्रियायामेकस्यामेवाविविक्तः समावेशो दृश्यते; सेयमविविक्तकर्तृक्रियासमावेशा नाम वैसादृश्यवती सहोक्तिः // - धीरेणेत्यादि / “धैर्येण समं यामा हृदयेन सममनिष्ठिता उपदेशाः / उत्साहेन सह भुजौ बाष्पेण समं गलन्त्यस्या उल्लापाः // " अस्य रामस्य धैर्येण समं यामा रात्रिप्रहरा गलन्ति / हृदयेन सममनिष्ठिता अनियूंढा अनिश्चिता वा उपदेशा गलन्ति / उत्साहेन सह भुजा बाहवो गलन्ति / बाष्पेण सममुल्लापा आलापा वचनानि गलन्ति / धैर्यविगमानुचिते सदुपदेशावस्थितिः / ततो मनःशून्यता, तत उत्साहत्यागः, ततो भुजस्खलनम् , ततोऽश्रुणा सह वचनतेति क्रमेणाधिकार्तितो मन्मथदशाधिक्यमुक्तम् / उत्साहोऽध्यवसायः / अत्र गलनक्रियाया एकत्वेनाविविक्तता / वैसादृश्यं च व्यक्तमेव // - कर्मणामविविक्तक्रियासमावेशे इवशब्देन सहशब्दस्य स्थाने ससादृश्या यथा 'धीरं व जलसमूहं तिमिणिवहं विअ सपक्खपव्वअलोअम् / णइसोत्तेव तरङ्गे रअणा व गरुअगुणसआई वहन्तम् // 133 // ' धैर्यमिव जलसमूहं तिमिनिवहमिव सपक्षपर्वतलोकम् / नदीस्रोतांसीव तरङ्गान् रत्नानीव गुरुकगुणशतानि वहन्तम् // ] अत्र धैर्येण सह जलसमूहस्य, तिमिनिवहेन सपक्षपर्वतलोकस्य, नदीस्रोतोभिस्तरङ्गाणाम् , रनैश्च गुरुकगुणशतानां मिथः प्रतीयमानं सादृश्यमिवेन द्योत्यते / सहार्थश्च वाक्यार्थसामर्थ्येन लभ्यत इति सेयं 1. 'णिसामामा' इति सेतुबन्धे पाठः..