________________ 182 काव्यमाला। - अत्र संबोध्यमानयुष्मदर्थः कर्मतामापन्न उह्यस इति क्रियायां केवल एव क्रियापदार्थेन सह समाविष्टः; सेयं विविक्तकर्मक्रियासमावेशा नाम वैसादृश्यवती सहोक्तिः // __ उज्झसीत्यादि / “उह्यसे प्रियया समदं तथापि खलु रे भणसि किमिति कृशेति / उपरिभरेण च हे अज्ञ मुञ्चति वृषभोऽप्यङ्गानि // " अपराधवता केनचिदवला दुर्बला किमिति त्वं कृशेति पृष्टा / तमुद्दिश्याह-उह्यस इति / प्रियया समदं सगर्व यथा स्यादेवं त्वमुह्यसे भ्रियसे / तथापि रे त्वं वदसि किमिति कृशासि त्वमिति / हे अज्ञ ज्ञानहीन, उपरिभरेण गोण्यादिगौरवेण वृषभोऽप्यङ्गानि मुञ्चति त्यजति / किं पुनरबलेति भावः / उह्यस इति 'वह प्रापणे' कर्मणि लकारः / वइल्लो वृषभः / रेशब्दः साक्षेपसंबोधने / अत्र वहनक्रियायां त्वमिति बोध्योऽर्थः कर्मीभूतः केवल एव प्रियापदार्थेन सह समाश्लिष्टस्तयोश्च विसदृशता व्यक्तैव // . विविक्ताया एव लक्षणान्तरमाह.....यत्रानेकोऽपि कादिः प्रविविक्तैः क्रियादिभिः / विविक्तभावं लभते विविक्ता सापि कथ्यते // 59 // यत्रेति / यत्रानेकः कादिभिन्नैः क्रियादिभिर्भेदं लभते सा विविक्तेति कथ्यते // सा कर्तृद्वयस्य पृथक् क्रियासमावेशे यथा___'वर्धते सह पान्थानां मूर्च्छया चूतमञ्जरी / वहन्ति च समं तेषामश्रुभिर्मलयानिलाः // 131 // ' .. अत्र चूतमञ्जरी मूर्च्छया सह वर्धनक्रियायाम् , मलयानिलाश्चाश्रुभिः सह वहनक्रियायां पृथक् पृथग्विवेकेनैव कर्तारः समाविष्टाः, सेयमपि विविक्तकर्तृक्रियासमावेशैव वैसादृश्यवती सहोक्तिः / एवं कर्मणोऽपि विवेके द्रष्टव्या // वर्धत इत्यादि / चूतमञ्जरी पान्थानां मूर्च्छया सह वर्धते, मलयानिलास्तेषां पान्थानामश्रुभिः सह वहन्ति वान्ति भ्रश्यन्ति च / 'पथिकः पान्थ इत्यपि' इत्यमरः / अत्र चूतमार्यादेस्तत्क्रियायां विवेकेनैव कर्तृत्वेन समावेशः / विसदृशता तु व्यक्तैव //