________________ 4 परिच्छेदः। सरखतीकण्ठाभरणम् / 481 'कृताभिषेका महिषी' इत्यमरः / अत्र महिषीवृद्धापदयोर्व्याजात् कपटान्निन्दास्तुतिर्लेशत एव // इति लेशालंकारनिरूपणम् // . सहोत्यलंकारनिरूपणम् / सहोक्तिलक्षणमाह कादीनां समावेशः सहान्यैर्यः क्रियादिषु / विविक्तश्चाविविक्तश्च सहोक्तिः सा निगद्यते // 57 // वैसादृश्यवती चेयमुच्यमाना मनीषिभिः। सहेवादिप्रयोगेषु ससादृश्या च दृश्यते // 58 // कति / क्रिमादिषु कादीनामन्यैः सह यः समावेशोऽवस्थानं सा सहोक्तिः / आदिपदात्कर्मादिपरिग्रहः / स समावेशो विविक्तः केवलः, अविविक्तो मिश्रः॥ सा कर्तृविविक्तक्रियासमावेशे यथा 'कोकिलालापमधुराः सुगन्धिवनवायवः / . यान्ति साधं जनानन्दैर्वृद्धिं सुरभिवासराः // 129 // अत्र सुरभिवासरा इति कर्तृपदार्थः केवल एव जनानन्दैः सह वृद्धिप्राप्तिक्रियायां समाविष्ट इति सेयं विविक्तकर्तृक्रियासमावेशा नाम वैसादृश्यवती सहोक्तिः // . कोकिलेत्यादि / सुरभिवासरा वसन्तदिवसाः जनहषैः सह वृद्धिं यान्ति / कीदृशाः / कोकिलालापो मधुरो मनोहरो येषु ते, सुगन्धयः शोभनगन्धवन्तो वनवायवो मलयानिला येषु ते / अत्र केवलस्य कर्तुर्वसन्तदिनस्य जनानन्दैः सह वृद्धिप्राप्तिक्रिय गमावेशः / स च विसदृश एव / दिनवृद्धेर्दण्डाधिक्यरूपत्वात् , आनन्दवृद्धरतिसुखरूपत्वात् // कर्मणो विविक्तक्रियासमावेशे यथा- . 'उज्झसि पिआइ समअं तह वि हु रे भणसि कीस किसिअंति / उवरिभरेण अ अण्णुअ मुअइ वइल्लो वि अङ्गाइं // 130 // ' [उह्यसे प्रियया समदं तथापि खलु रे भणसि किमिति कृशेति / . . उपरिभरेण च हे अज्ञ मुञ्चति वृषभोऽप्यङ्गानि // ] 31 स० क०