________________ 180 काव्यमाला / एव दुःखमयता। प्राकृतोऽविविक्तो जनो धन्योऽस्ति / कीदृशः / अव्युत्पन्ना अविशेषवती मतिर्यस्य सः / न सता साधुना कृतेन कार्येण नैवासता असाधुना कायेंण व्याकुलः / साध्वसाधुकार्यरहित इत्यर्थः / अत एव इदं कृत्यमिदमकृत्यमिति विचारशून्यहृदयश्च / अत्रापि रोषभयादेव लेशतोऽभिधानम् / दोषगुणीभावो गुणदोषीमावश्व व्यस्तोऽत्र कथं न लेश इति पृच्छति-अथेति / उत्तरम् / दोषेति / आद्यस्याप्रस्तुतस्तुत्याम् , अन्त्यस्य व्याजस्तुत्यां विषयीकरणात्तयोरेवान्तर्भाव इत्यर्थः // व्याजस्तुतिरपि द्विधा-शुद्धा मिश्रा च / तयोः शुद्धा यथा 'पुंसः पुराणादाच्छिद्य श्रीस्त्वया परिभुज्यते / राजन्निक्ष्वाकुवंश्यस्य किमिदं तव युज्यते // 127 // ' अत्र शुद्धपरदारापहरणलक्षणनिन्दाव्याजेन स्तुतेर्विहितत्वादियं शुद्धानाम व्याजस्तुतिर्गुणदोषीमावलक्षणाल्लेशान्न पृथक् // पुंस इत्यादि / पुराणात्पुंसः पुराणपुरुषाद्विष्णोः श्रीः कमला आच्छिद्य गृहीत्वा त्वया परिभुज्यते सेव्यते / हे राजन् , इक्ष्वाकुर्नुपविशेषो वंश्यो यस्य तस्य तवेदं किं युज्यते / किंतु नार्हतीति निन्दाभासः / अथ च पुराणात्पुंसो वृद्धात्पुरुषाच्छ्रीः संपदाच्छिद्य त्वया भुज्यत इति तात्पर्यार्थः / अत्र श्रीपदे व्याजः / स च शुद्ध एव / तेन च शुद्धिरिह // लेशाभेदमाह-गुणेति // मिश्रा यथा'प्रियोऽसि प्राज्ञोऽसि प्रभुरसि कुलीनोऽस्यसि युवा युवत्यस्त्वामेवं कति न पतिमुर्वीश वृणते / अतश्चैतां कीर्तिं रघुनहुषमान्धातृमहिषीं पराम्रष्टुं वृद्धामधिगतनयो नार्हति भवान् // 128 // ' अत्र स्तुतिपदमित्रैव व्याजगर्हया स्तुतिरितीयं मिश्रानाम व्याजस्तुतिर्लेशभेदः // प्रिय इत्यादि / हे राजन् , प्रियः प्रीतोऽसि / प्राज्ञ उत्कृष्टमतिरसि / ईश्वरोऽसि। शुद्धवंशोऽसि। तरुणोऽसि। एवं सति कियत्यस्तरुण्यस्त्वां पतिं न वृणते न खीकुर्वन्ति / अतो हेतोरेतां कीर्ति पराम्रष्टुमाक्रमितुं भवान्नार्हति। कीदृशीम् / रघुनहुषमान्धातॄणां नृपविशेषाणां महिषीं महादेवीमत एव वृद्धामतिवयस्कां च /