________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 479 शिक्षिताः / 'आगोऽपराधो मन्तुश्च' इत्यमरः / अत्र दोषवदाभासते प्रतिभातीति दोषाभासो न त्वयं परमार्थतो दोषः / चाटुकारिता हि गुणो येन कृतापराधोऽपि मामनुकूलयन्मानभङ्गं करोति / अत एव च तत्रानुरागः / तथा च चपल इत्यादिना सखीजनोद्दिष्टं मानं रागात्कर्तुमशक्ततया बालया चाटुकारिता दोषाभासो गुणः कोऽपि दर्शित इति गुणस्य दोषतात्र / गुणदोषयोर्मिलितयोरेव तत्त्वं लेश इति मतमाह-अन्ये इति / समासोक्तिर्गोपनेन भणनम् , असमासोक्तिः स्फुटभणनम् // तयोः समासोक्त्या यथा'गुणानामेव दौरात्म्याद्धरि धुर्यो नियुज्यते / असंजातकिणस्कन्धः सुखं स्वपिति गौर्गलिः // 125 // अयमपि प्रकोपभयाल्लेशेनैवोच्यत इति लेशः // गुणानामित्यादि / गुणानां वहनक्षमत्वादीनां दौरात्म्याहोषाखुर्यो धुरंधरो गोषो धुरि धुरायां नियुज्यते / गलिः पुन,रसंजातोऽनुत्पन्नः किणो मृतशोणितमांसपिण्डो यत्रेदृशः स्कन्धो यस्य स सुखं यथा स्यादेवं खपिति / धुरं वहतीति धुर्यः। 'धुरो यड्डको 4 / 4 / 77' इति यत् / 'किणः स्यान्मृतशोणिते' इति रत्नकोषः / 'गलिस्तु वहनाशक्ते' इत्यपि। अत्र रोषभयादेव समासेन गुणदोषयोरभिधानाल्लेशः॥ असमासोक्त्या यथा'सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा / अव्युत्पन्नमतिः कृतेन न सता नैवासता व्याकुलो युक्तायुक्तविवेकशून्यहृदयो धन्यो जनः प्राकृतः // 126 // ' अत्रापि प्रकोपभयादि पूर्ववत् / अथैष व्यस्तलक्षणत्वेन कस्मान्न लेश इत्युच्यते / दोषगुणीभावस्याप्रस्तुतस्तुत्या गुणदोषीभावस्य तु व्याजस्तुत्यापहारात् // सन्त इत्यादि / सन्तः सदा दुःखं यथा स्यादेवं जीवन्ति / कीदृशाः / सच्चरितस्य सद्व्यापारस्योदये व्यसनिन आसक्ताः / प्रादुर्भवन्त्याविर्भवन्ति यन्त्रणा अनापत्तयो येषां ते / सर्वत्र कार्ये जनानामपवादे दूषणोक्तौ चकिताः सतर्काः / अत