________________ 478 . काव्यमाला / . तत्र दोषस्य गुणीभावो लेशो यथा 'युवैष गुणवानराजा योग्यस्ते पतिरूर्जितः। .. रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि // 123 // . अत्र येयमुत्तरार्धेन राज्ञो वीर्यप्रकर्षस्य स्तुतिः सा कन्याया निरन्तरान्भोगान् निर्विविक्षोर्दोषत्वेन प्रतिभासिष्यत इत्यभिप्रेत्य योऽयं विदग्धसख्या राजप्रकोपपरिजिहीर्षया दोषोऽपि गुणरूपेणोक्तः; सोऽयं दोषस्य गुणीभावो नाम लेशतोऽल्पतया शनैरनन्यविदित उच्यमानो लेश इत्युच्यते // युवेत्यादि / स्वयंवरे कस्मिन्नपि नृपे दर्शितभावां सखीं निवर्तयितुं कापि स्तुतिव्याजात्तं निन्दति / युवत्वगुणित्वनृपत्वबलवत्त्वेभ्य एष तव पतिर्योग्यः / यस्य कामोत्सवादपि विषयोत्सवमनादृत्य रणोत्सवे मनः सक्तमासक्तम् / निर्विविक्षोरुपभोक्तुमिच्छोः कन्यायाः / 'निर्वेश उपभोगः स्यात्' इत्यमरः। अत्र विदग्धया सख्या राजकोपशान्तये भोगेच्छु प्रति वीर्यप्रकर्षरूपस्तवस्य दोषत्वेऽपि गुणत्वेनाल्पतयोपन्यसनाल्लेशोऽयं दोषस्य गुणीभावलक्षणः / अल्पतयैवात्र लेशता // गुणस्य दोषीभावो यथा 'चपलो निर्दयश्चासौ जनः किं तेन मे सखि / आगःप्रमार्जनायैव चाटवो येन शिक्षिताः // 124 // ' अत्र पूर्वार्धेन मानपरिग्रहानुगुणं सखीनामग्रतः प्रकाशं प्रतिज्ञाय तदनिर्वाहमाशङ्कमाना तदुपहासं परिजिहीर्षर्दोषाभासं तद्गुणग्राममाह -आगःप्रमार्जनायैव चाटवो येन शिक्षिता इति; सोऽयं गुणस्य दोषीभावो नाम लेशभेदो भवति / अन्ये पुनः समस्तमेव लेशलक्षणमाचक्षते-यत्र दोषस्य गुणीभावो गुणस्य च दोषीभाव इति / सोऽपि द्विधा-समासोक्त्या, असमासोक्त्या च // - चपल इति / हे सखि, चपलो निर्भयश्चासौ जनो भवतु तेन मम किम् / किंतु न किमपि / येन जनेनागःप्रमार्जनायापराधप्रोञ्छनाय परं चाटवः प्रियवादाः