________________ 4 परिच्छेदः / सस्वतीकण्यामरणम् / सा स्तुत्यर्था यथा'आहूतस्याभिषेकाच विसृष्टस्य वनाय च / न मया लक्षितस्तस्य खल्पोऽप्याकारविभ्रमः // 121 // :: अत्र रामस्य राज्याभिषेकवनगमनयोः पितुरादेशेन तुल्यरूपतया स्तुतिः प्रतीयते // आहूतस्येत्यादि / अभिषेकाय राज्याभिषेकायाहूतस्य कृताह्वानस्य, वनाय वनं गन्तुं विसृष्टस्य च तस्य रामस्य खल्पोऽप्याकारविभ्रम आकारान्यथात्वं मया न लक्षितः / 'अन्यथात्वेऽपि विभ्रमः' इति धरणिः / अत्र राज्याभिषेकः सुखहेतुः, वनगमनं दुःखहेतुः, तयोः पितृभक्त्या तुल्यत्वेन स्तुतित्वम् // निन्दार्था यथा- . 'यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा / यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः // 122 // अत्र यः परशुना छिनत्ति, योऽमुं मधुसर्पिषा सिञ्चति, यो वा गन्धमाल्याभ्यामचति तं प्रति तुल्यमेव निम्बस्य कटुत्वमिति समासोक्त्या तदुपमेयस्य निन्दा प्रतीयते // __यश्चेत्यादि / यो निम्बवृक्षं परशुना कुठारेण छिनत्ति, यश्चैनं निम्ब मधुसर्पिषा मधुसहितेन घृतेन सिंञ्चति, यश्चैनं गन्धमाल्याभ्यामर्चति सर्वस्य कृते स निम्बः कटुरेव तिक्त एव / 'पुष्पपुष्पस्रजोर्माल्यम्' इत्यमरः / अत्र समासोक्त्या समसनेन / साम्यापादनेनेति यावत् / उपमेयनिन्दाज्ञानम् // इति तुल्यमोगितालंकारनिरूपणम् // . लेशालंकारनिरूपणम् / लेशलक्षणमाह दोषस्य यो गुणीभावो दोषीभावो गुणस्य यः। स लेशः स्यात्ततो नान्या व्याजस्तुतिरपीष्यते // 56 // दोषस्येति / दोषस्य गुणत्वम् , गुणस्य च दोषत्वं यत्तदेव लेशलक्षणम् / तर्हि व्याजस्तुतावप्येवम् / तथा चातिव्याप्तिः / अत उक्तम्-तत इति / ततो लेशाधाजस्तुतिरभिन्नैवेति / नातिव्याप्तिरित्यर्थः //