________________ 476 काव्यमाला। अत्र यमादयः पञ्च भवन्तो लोकपाला इत्यनुक्तमपि तुल्यवस्तुयोगितयैव स्तुत्यर्थमेषां मिथः सादृश्यं प्रतीयते; सेयं प्रतीयमानतुल्यगुणत्वे स्तुत्यर्था तुल्ययोगिता // __ यम इत्यादि / यमादयो भवन्तोऽनन्यविषयामनन्यगामिनी लोकपाल इत्यनेनाकारेण श्रुतिं ख्यातिं बिभ्रति धारयन्ति / सहस्राक्ष इन्द्रः / 'श्रुतिः ख्यातौ च वेदे च' इति विश्वः / अत्र चत्वारो यमादयो लोकपालाः, इदानीं भवान् पञ्चमो लोकपालशब्दवाच्य इति यमादिसमानताख्यापनेनोत्कृष्टसाम्यकथनाद्राज्ञः स्तुतिः / सा तु प्रतीयमानतुल्यगुणेनैव // प्रतीयमानतुल्यगुणत्व एव निन्दार्था यथा____ 'राजानमपि सेवन्ते विषमप्युपभुञ्जते / रमन्ते च परस्त्रीभिर्विषमाः खलु मानवाः // 120 // अत्र योऽयं सेवादिर्मानवानां राजविषये स्त्रीषु च वैषम्यहेतुतुल्य. त्वेन योगो राजादीनां वा कर्मादितुल्यतया तक्रियायां समावेशः सोऽमीषां मिथः सादृश्यं प्रत्याययन् राजसेवापरस्त्रीरत्योर्विषोपभोगतुल्यतां गमयतीति सेयं प्रतीयमानतुल्यगुणत्वे निन्दार्था तुल्ययोगिता / / राजानमित्यादि / भूपमपि सेवन्ते, विषमप्युपभुञ्जते खादन्ति, अन्यस्त्रीभिः सह रमन्ते विलसन्ति / अतो मनुष्या विषमाः साहसिकाः / खलु हेतौ / अत्र विषमतायां वा तुल्ययोगस्तक्रियाविषयतया वा राजसेवापरस्त्रीरलोविषोपमोगतुल्यतां बोधयति स च प्रतीयमान एव // मतान्तरेण तुल्ययोगितामाह अन्ये सुखनिमित्ते च दुःखहेतौ च वस्तुनि / स्तुतिनिन्दार्थमेवाहुस्तुल्यत्वे तुल्ययोगिताम् // 55 // अन्ये इति / सुखहेतुदुःखहेतुवस्तुनोः स्तुतिनिन्दार्थ साम्ये तुल्ययोगितामन्ये प्राहुः॥ 1. 'रहो साहसिका नराः' इति पाठः. 2. 'कर्मत्वादिरूपस्स' इति क. ख.