________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 475 कीर्तनमभिधानं सा तुल्ययोगिता / गुणोऽत्र धर्मः साधुरसाधुर्वा / अत एव स्तुति निन्दा वा स्यात् // सा अभिधीयमानतुल्यगुणत्वेन स्तुत्यर्था यथा __ 'शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः। . इमां लड्कृितमर्यादां चलन्तीं बिभृथ क्षितिम् // 117 // अत्राभिधीयमानमहत्त्वादिगुणोत्कृष्टाभ्यां शेषाहितुषारशैलाभ्यां सह स्तुत्यर्थं तुल्ययोगेन क्षितिपतेरभिहितत्वादियं स्तुत्यर्था तुल्ययोगिता / / शेष इत्यादि / शेषः सर्पभेदो हिमालयस्त्वं च सर्वे यूयमिमां क्षितिं विभृथ धारयथ / कीदृशाः / महान्तो महत्त्ववन्तः गुरवो गुरुत्वाश्रयाः स्थिराः स्थैर्यवन्तश्च / कीदृशीम् / लजितातिक्रान्ता मर्यादा यया तामत एव चलन्तीमितस्ततो गामिनी च / अत्र महत्त्वादिकमभिहितम्। भूपस्य च शेषहिमाद्रिभ्यां तुल्यताख्यापनेनोत्कृष्टसाम्यकथनात्स्तुतियोगः // . अभिधीयमानतुल्यगुणत्व एव निन्दार्था यथा'संगतानि मृगाक्षीणां तडिद्विलसितान्यपि / क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि खयम् // 118 // . अत्र घनारब्धान्यपीत्यादिभिरभिधीयमानतुल्यगुणानां मृगाक्षीसंगतानां तडिद्विलसितानां च निन्दार्थ तुल्ययोगेनाभिधानादियं निन्दा तुल्ययोगिता // संगतानीत्यादि / मृगाक्षीणां संगतानि संगमाः स्वयं घनं निरन्तरमारब्धान्यपि कृतान्यपि, तथा तडितां विद्युतां विलसितानि च घनैर्मेधैरारब्धान्यपि क्षणद्वयमारम्भक्षणादूर्ध्वमपरमपि क्षणं न तिष्ठन्ति; कुतो दीर्घकालम् / अत्र प्रसिद्धचापलया विद्युता स्त्रीणां संगमस्य चपलता समीकृत्योच्यत इति निन्दातुल्ययोगितेयम् / प्रतीयमानतुल्यगुणत्वे स्तुत्यर्था यथा 'यमः कुबेरो वरुणः सहस्राक्षो भवानपि / बिभ्रत्यनन्यविषयां लोकपाल इति श्रुतिम् // 119 //