________________ 474 काव्यमाला / भवन्ति / यासां त्वं वल्लभो नासि / अत्र धन्या इत्यादिना• अनुरागिण्याः साक्षास्तुतिरभिहिता तस्या एव कामसिद्धिवाधिका // / कामबाधयैव प्रत्येतव्या यथा 'सुहउच्छअं जणं दुल्लहं वि दूराहि अम्ह आणन्त / उअआरअ जर जीअं वि णेन्त ण कआवराहोसि // 116 // ' [सुखपृच्छकं जनं दुर्लभमपि दूरादस्माकमानयन् / ___उपकारक ज्वर जीवमपि नैयन्न कृतापराधोऽसि // ] - अत्र पूर्वोक्तास्मदभिप्रायसिद्ध्यैवंनाम त्वयास्माकमुपकृतं येन जीवितमपि हरन्नापराध्यसीति ज्वरं प्रति यदतिरक्ततया वाक्यं तेनेहास्तोतव्यस्य ज्वरस्य स्तुतिः प्रतीयते; सेयं प्रत्येतव्या नामाप्रस्तुतप्रशंसा तस्या एव शरीरबाधया सर्वानपि कामान् बाधते // सुहेत्यादि / “सुखपृच्छकं जनं दुर्लभमपि दूरान्ममानयमान / उपकारक ज्वर जीवमपि गृह्णन्न कृतापराधोऽसि // " काचिदत्यनुरागिणी नायकमन्यानुरक्तमपि वार्ताकरणायातं दोषगर्भमाह-सुखेति / हे ज्वर, मुखपृच्छकं तवाङ्गे सुखमधुनेति प्रश्नकारकं जनं दुर्लभमपि मम कृते दूरदेशादानयमान प्रापक, अत एवोपकारक, जीवमपि गृह्णन् त्वं न कृतापराधोऽसि / मुखं मुष्ठ पृच्छति मुखपृच्छकः / 'क्रियासमभिहारे वुन्' इति योगविभागादुन् / अत्र सुखपृच्छकेल्यादिना खाभिप्रायसिद्ध्यानुरक्ताया ज्वरं प्रति वाक्यम् / तेनाप्रस्तुतस्तुतिर्जायते न त्वभिधीयत इति / कामबाधामाह-शरीरेति // इत्यप्रस्तुतप्रशंसालंकारनिरूपणम् / तुल्ययोगितालंकारनिरूपणम् / . तुल्ययोगितालक्षणमाह विवक्षितगुणोत्कृष्टैर्यत्समीकृत्य कस्यचित् / कीर्तनं स्तुतिनिन्दार्थ सा मता तुल्ययोगिता // 54 // विवक्षितेति / विवक्षितो वक्तुमिष्टो यो गुणस्तेनोत्कृष्टा अधिका ये तैः सह स्तुत्यर्थं निन्दार्थ वा कस्यचित्स्तुत्यस्य निन्द्यस्य वा तेन गुणेन तस्य यत्समीकृत्य 1 'दूरान्ममा नयमान' इति व्याख्यादृतः पाठः. 2. 'गृह्णन्न' इति पाठः.