________________ 472 काव्यमाला। कालाक्खरेत्यादि / 'कालाक्षरदुःशिक्षित बालक रे लग मम कण्ठे / द्वयोरपि नरकनिवासः समको यदि भवति तदा भवतु // इह रे कालाक्षरेषु दुःशिक्षित दुरुपदेश बालक षोडशवर्षवयस्क, मम कण्ठे लग / मामालिङ्गयेत्यर्थः / द्वयोरावयोस्तथा सति नरकनिवासः समकस्तुल्यो यदि भवति तदा भवतु / तत्राप्यावयोः समान एवेति नरकोऽपि वर्गः / कालाक्षरेति लौकिकी संज्ञा / रे इति नीचसंबोधनम् / 'बाल आषोडशाद्वर्षात्' इति मनुः / समक इति खार्थे कन् / पोगण्डो व्यवहारानभिज्ञः / पोगण्डस्तु ततःपरम् / ' 'परतो व्यवहारज्ञः' इति मनुः / अधीतेति / अधीतं धर्मशास्त्रं मन्वादिस्मृतिर्येन सः / अभिमतमाकाङ्कितं रूपं सौन्दर्यं यस्य सः / तादृशश्चासौ पोगण्डश्चेति कर्मधारयः / रूपक इत्यत्र 'शेषाद्विभाषा 5 / 4 / 154' इति कप् / अविनयवती वेश्या / अत्र निजाभिप्रायसिध्या महासाहसे सुरतरूपे नियोगस्य साक्षादनभिधानात्प्रतीयमाने वा प्रस्तुतस्तुतिः / धर्मबाधामाह-परस्येति / दारान् पत्नीम् // अर्थबाधया वाच्या यथा'पङ्गो वन्यस्त्वमसि न गृहं यासि योऽर्थी परेषां धन्योऽन्ध त्वं धनमदवतां नेक्षसे यन्मुखानि / श्लाघ्यो मूक त्वमपि कृपणं स्तौषि नार्थाशया यः स्तोतव्यस्त्वं बधिर न गिरं यः खलानां शृणोषि // 113 // ' अत्र स्तोतव्यानां पङ्ग्बन्धमूकबधिराणां वन्द्यधन्यश्लाघ्यस्तोतव्य. पदैः साक्षादभिनन्दनादियं वाच्या नामाप्रस्तुतप्रशंसाभिमानिनोऽर्थसिद्धिं बाधते // पड़ो इत्यादि / हे पङ्गो खञ्ज, त्वं वन्द्योऽसि; यस्त्वमर्थी सन् परेषां गृहं न यासि / हे अन्ध दृष्टिशून्य, त्वं धन्यः, यद्धनगर्ववतां मुखानि त्वं नेक्षसे नं पश्यसि / हे मूक, त्वं श्लाघ्योऽसि; यस्त्वं कृपणं जनमर्थाशया न स्तौषि / हे बधिर श्रवणशून्य, त्वं स्तोतव्योऽसि; यस्त्वं खलानां दुर्जनानां गिरं वाणी न शृणोषि / 'पङ्गुः खज इति स्मृतः' इति हारावली / 'अवाचि मूकः' इत्यमरः / अत्र पड्ग्वादीनां वन्यादिपदैः साक्षादभिनन्दनादभिधीयमानता। अर्थबाधामाहअभीति / अनेन मानिनामर्थसिद्धिबाध एवोक्तः // ..... .