________________ .471 4 परिच्छेदः / सरस्वतीकण्ठाभरणम् / उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीग्विनोदः कुतः 111' अत्र यथोक्तैर्हेतुभिः खाभिप्रायसाधनेन यदिदमीदग्विनोदः कुत इति साक्षान्मृगयाभिनन्दनं सेयं वाच्या नामाप्रस्तुतस्तुतिः 'अहिंसा परमो धर्मः' इति धर्म बाधते // भेद इत्यादि / सन्तो मृगयामाखेटकं व्यसनमकर्तव्यं वदन्ति यत्तन्मिथ्या / ईदृग्विनोद उत्साहः कुतः कुत्र / किंतु न कुत्रापि / हि यतो वपुर्लघु भवति निन्दितमिव भवति / कीदृशम् / मेदसो बलस्य छेदेन संचलनेन कृशमुदरं यत्र / मेदसां स्थित्या स्थौल्यं भवति। कृशोदरतयैवोत्साहयोग्यम् / अत एव तुन्दिलेष्वनुत्साहः / सत्त्वानां प्राणिनां भयकोधयोर्विकारयोगि चित्तमपि लक्ष्यते / भये चित्तमीक्, क्रोधे चेदृगिति / स च धन्विनां धनुर्धराणामुत्कर्षों यदिषवश्वले लक्ष्ये सिध्यन्ति च भेदका भवन्ति। 'मेदस्तु वपा वसा' इत्यमरः / अत्रोक्तहेतुद्वारा निजाभिप्रायस्य सिद्ध्या मृगयाभिनन्दनं धर्मबाधनयाभिधीयमानमत इयमप्रस्तुतस्तुतिः // धर्मबाधनामाह-अहिंसेति / मृगया हिंसाजनिका / अतो धर्मबाधात्रेत्यर्थः // धर्मबाधयैव प्रत्येतव्या यथा'कालाक्खरदुस्सिक्खिअ बालअ रे लग्ग मज्झ कण्ठम्मि / दोण्ह वि णरअणिमसो सम जइ होइ ता होउ // 112 // ' कालाक्षरदुःशिक्षित बालक रे लग मम कण्ठे / द्वयोरपि नरकनिवासः समकं यदि भवति तद्भवतु // ] - अत्र कालाक्षरदुःशिक्षिणेत्यनेन लिपिज्ञानादिभिरधीतधर्मशास्त्रामिमतरूपकपोगण्डः कोऽपि कयाप्यविनयवत्या सोपालम्भमेहि रे कण्ठे लगेत्यभियुज्यते / तत्र ते मतमेवं कृते यदि नरकः स्यात् ; स यद्यावयोः सहैव, नासौ नरक इति; किं तर्हि वर्ग इति / सोऽयं स्वाभिप्रायसाधनान्महासाहसे नियोगस्तस्येह साक्षादस्तुतस्यास्तोतव्यस्य स्तुतिः प्रतीयते / सेयं प्रत्येतव्या नामाप्रस्तुतप्रशंसा 'परस्य दारान्मनसापि नेच्छेत्' इति धर्म बाधते //