________________ 170 काव्यमाला। - अहं त्विन्दं मन्ये त्वदरिविरहाक्रान्ततरुणी'.. कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम् // 110 // अत्र कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुमिन्दुमहं मन्ये इत्यनेन खमतद्वारकमुत्प्रेक्षायाः समर्थनं कृतमित्ययं मताभिधानमुत्प्रेक्षाया एव प्रकारः॥ यदेतदित्यादि / यदेतच्चन्द्रस्यान्तर्मध्ये मेघकणविलासं कुरुते लोकस्तच्छशक इत्याचष्टे वदति / मां प्रति तथा नैतत् / अहं पुनरिन्दं मन्ये / कीदृशम् / त्वदीयशत्रुविरहग्रस्ताया युवत्याः कटाक्ष एवोल्कापातस्तस्य व्रणकिण एव कलङ्कस्तेनाङ्किता तनुः शरीरं यस्य तादृशम् / 'लवलेशकणाणवः' इत्यमरः / 'अमानोनाश्च प्रतिषेधवचनाः' इति च / अत्र निजमतोपन्यासादुत्प्रेक्षासमर्थन मिति मतोत्प्रेक्षेयम् // इत्युत्प्रेक्षालंकारनिरूपणम् // अप्रस्तुतप्रशंसालंकारनिरूपणम् / अप्रस्तुतस्तुतिलक्षणमाह अप्रस्तुतप्रशंसा स्यादस्तोतव्यस्य या स्तुतिः / - कुतोऽपि हेतोर्वाच्या च प्रत्येतव्या च सोच्यते // 52 / / सा तु धर्मार्थकामानां प्रायोऽन्यतमबाधया। ... स्वाभिप्रायप्रसिद्ध्या च जायमानेह दृश्यते / / 53 // अप्रस्तुतेति / अस्तोतव्यस्य निन्दितस्य कुतोऽपि कारणात्स्तुतिः प्रशंसा अप्रस्तुतस्तुतिः अत एव समासोक्तेर्भेदः / तत्र [पमानोपमेयता, अत्र तु निन्दितमर्थान्तरम् , अन्यस्य स्तुतिरिति / सा त्वभिधीयमाना प्रतीयमाना चत्याहवाच्येति / तत्र हेतुद्वारकमपि विभागमाह-सा त्विति / धर्मश्चार्थश्च कामश्च तेषामन्यतमस्य प्रायो बाहुल्येन बाधया सर्वत्र स्वाभिप्रायस्य प्रकृष्टसिद्ध्या सोत्पद्यमाना प्रतीयत इत्यर्थः॥ तासु धर्मबाधया वाच्या तथा 'मेदच्छेदकृशोदरं लघु भवत्युत्साहयोग्यं वपुः ___ सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयकोधयोः / 1. 'त्युत्थानयोग्यं' इति पाठः.