________________ 4 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 469 परत्वमित्युत्प्रेक्षावयवत्वम् / अत एवोत्प्रेक्षाभेदत्वम् / अवयवक्रियामात्रस्यावयविक्रियोत्प्रेक्षणादवयवावयविभावः / तत्राङ्गाङ्गिभाव एव / यद्वा अवयवमात्रक्रियोप्रेक्षणमेवावयवित्वोत्प्रेक्षेत्याह-अन्य इति // यथा-- 'लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्लेव च वज्रलेपघटितेवान्तर्निखातेव च / सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि श्चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया // 108 // तेषां मते पूर्वोदाहरणमुत्प्रेक्षावयवो न भवति / लीनेवेत्यादि / विवृतोऽयमनुप्रासे / एतन्मते पूर्वोदाहरणम् 'अङ्गुलीभिरिव-' इत्यादि / उत्प्रेक्षोपमायामन्तर्भवतीत्याह-तेषामिति // उत्प्रेक्षोपमा यथा- . 'किंशुकव्यपदेशेन तरुमारुह्य सर्वतः / दग्धादग्धामरण्यानी पश्यतीव विभावसुः // 109 // अत्र व्यपदेशशब्देन किंशुककुसुमानामग्निसादृश्यमभिधाय दर्शनक्रियोत्प्रेक्ष्यत इति सेयमुत्प्रेक्षोपमा / पूर्वस्मिन्नप्युदाहरणे मरीचिभिरगुलीभिरिव तिमिरं केशसंचयमिव संनिगृह्येत्युपमानार्थानुप्रवेश उत्प्रेक्षायां द्रष्टव्यः / सेयमुत्प्रेक्षावयव उत्प्रेक्षोपमा चोत्प्रेक्षैव भवति // किंशकेत्यादि / विभावसुरग्निररण्यान्या महारण्यस्य दग्धादग्धं दुग्धमदग्धं च भागं पश्यतीव / किं कृत्वा / किंशुकव्यपदेशेन किंशुककुसुमव्याजेन सर्वत्र वृक्षमारुह्य / 'महारण्यमरण्यानी' इत्यमरः / 'चित्रभानुर्विभावसुः' इति च / अत्र व्याजपदेन किंशुककुसुमाग्योः सादृश्यमभिप्रेतमत उपमागर्भोत्प्रेक्षेयम् // मतं यथा-. 'यदेतचन्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा /