________________ 463 4 परिच्छेदः / सरखतीकण्ठाभरणम् / गना, कुडालशब्देन कापि मुग्धाङ्गनाभिधीयते; सेयमन्यजातिविषयान्योक्तिः समासोक्तिरेव भवति // पिबन्नित्यादि / भ्रमरो यथाकामं यथेच्छं प्रफुल्लपङ्कजे मधु पिबन् सन् असंनद्धसौरभ्यमप्राप्तसौगन्ध्यमपि कुमलं चुम्बति / तत्पश्य / अत्र वाक्यार्थस्यैव कर्मता / अत्र भिन्नभिन्नजातितयान्यजातिता // ___ अनन्योक्तिशब्देनेहाध्यासविषया तद्भावापत्तिरुच्यते / यथैष ब्रह्म दत्त इति / सा द्विधा शुद्धा चित्रा च / तयोः शुद्धा यथा'सुधाबद्धंग्रासैरुपवनचकोरैरनुसृतां किरज्योत्स्नामच्छां नवलवलिपाकप्रणयिनीम् / उपप्राकाराग्रं प्रहिणु नयने तर्कय मना गनाकाशे कोऽयं गलितहरिणः शीतकिरणः // 100 // ' अत्र कस्याश्चिन्मुखे चन्द्रमसमध्यास्य कश्चिदेवं ब्रूते / सा चेयं पूर्वार्धेऽभिधीयमानतुल्यविशेषणा, पश्चिमार्धे पुनरनाकाशे कोऽयं गलितहरिण इत्यत्र तुल्यविशेषणा समासोक्तिरेवानन्योक्तिः / एकस्यैव चाध्यासादियं शुद्धत्युच्यते // नान्यस्योक्तिरनन्योक्तिः / तथाचानन्योक्तिपदेन तद्भावापत्तिस्तत्ता विषयतैवोच्यते / एषोऽयमित्याकारस्तस्याः / मुधेत्यादि / हे सखे, उपप्राकाराग्रं प्राकाराग्रसमीपे नयने नेत्रद्वयं प्रहिणु देहि / मनाक् त्वं तर्कय / अनाकाशे आकाशातिरिकदेशे गलितहरिणस्त्यक्तलाञ्छनः कोऽयं शीतकिरणश्चन्द्र इति / कीदृशः। ज्योत्स्ना किरन् विक्षिपन् / कीदृशीम् / मुधा मिथ्या बद्धोऽनुबद्धो ग्रासः कवलो यैरेवंभूतैरुपवनस्थितचकोरैरनुमृतामनुगताम् / खच्छाम् / नवा नूतना या लवली लताभेदस्तस्याः पाकस्य प्रणयिनीं प्रश्रयवतीं च / 'लवली च लताभिदा' इति विश्वः / लवलीवाचको लवलिशब्दोऽपि / 'लवलिः श्वेतपार्थपी (?) इति शब्दभेदः / उपप्राकाराग्रमित्यत्र सामीप्येऽव्ययीभावः / अत्र अध्यास्य आरोप्य / पूर्वार्धे तुल्यविशेषणत्वमुक्तम् , उत्तरार्धेऽतुल्यविशेषणत्वम् / तस्यैवाभिधानादनन्योक्तिरेकस्यैवाभिधानाच्छुद्धता च // 1. टीकाकृतातु 'मुधा बद्धग्रासैः' इति पाठो धृतः. 2. पादपी' इति स्यात.