________________ 462 काव्यमाला / सादृश्ययोगविगम्यते; सेयमुभयवती तुल्यातुल्यविशेषणाभिधीयमानप्रतीयमानसादृश्या समासोक्तिः // उपाध्वमित्यादि / हे पान्थाः, तत्सरस्तडागमुपाध्वं सेवध्वम् / कीदृशम् / मागेस्य तिलकभूतमलंकारीभूतम् / यत्सर आसाद्य गतश्रमभरा यूयं स्वेच्छं विलसथ यथेच्छं क्रीडध्वम् / इतोऽस्मात्क्षाराब्धेर्निवृत्तिरेव कल्याणी कुशलदा न पुनः कथमप्यवतारोऽत्र कुशलदः / अत्रावतरणं न कर्तव्यमिति भावः / क्षाराब्धेः कीदृशात् / जरठेन जीर्णेन कमठेन कच्छपेन क्षुण्णं पयो जलं यस्य तस्मात् / उपाध्वमिति उपपूर्व 'आस उपवेशने' लोण्मध्यमपुरुषबहुवचने 'धि च 8 / 2 / 25' इति सकारलोपः / 'कमठकच्छपौ' इत्यमरः / कल्याणीति गौरादित्वान्डीष / अत्र पूर्वार्धे सरःसज्जनयोः परोपकारत्वादिगुणैस्तुल्यैरेव सादृश्यमभिहितम् / श्लाघा तु व्यक्तैव / उत्तरार्धे तु क्षाराब्धेस्तादृशस्यानुपकारकतया गर्दा व्यक्तैव ज्ञायते, इहासज्जनगता निन्दापि प्रतीयते; किंतु सा विशेषणद्वारा नेत्यतुल्यविशेषणता // अन्योक्तिर्द्विधा खजातौ जात्यन्तरे च / तयोः स्वजातौ यथा 'लक्ष्मीपयोधरोत्सङ्गकुङ्कुमारुणितो हरेः। बलिरेष स येनास्य भिक्षापात्रीकृतः करः // 98 // " अत्र हरिशब्देन बलिशब्देन वा कश्चित् समानेतिवृत्तः पुंविशेष एवोच्यते; सेयं स्वजातिविषयान्योक्तिः संक्षेपोक्तिरूपत्वात्समासोक्तिरेव / लक्ष्मीत्यादि / स बलिरेव वदान्यः / येन बलिनास्य हरेविष्णोः करो हस्तो भिक्षापात्रीकृतो भिक्षापात्रत्वमापादितः / कीदृशः करः / लक्ष्मीस्तनकोडकुङ्कुमेनारुणितो लोहितीकृतः / अत्र स्वजातित्वं तुल्यचरितत्वम् / हरिबल्योरपेक्षयान्यत्वमपि // तर्हि समासोक्तिता कथमत आह-संक्षेपेति / संक्षेपेणोपस्थापनादेव समासोक्तित्वमित्यर्थः // जात्यन्तरे यथा 'पिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे। अप्यसंनद्धसौरभ्यं पश्य चुम्बति कुङ्मलम् // 99 // ' अत्र भ्रमरशब्देन कश्चित् कामी, फुल्लपङ्कजशब्देन कापि प्रौढा