________________ 1 परिच्छेदः / सरखतीकण्ठाभरणम् / गम्यते / सेयमभिधीयमानसादृश्या श्लाघावती तुल्यविशेषणा नाम समासोक्तिः // नालस्येत्यादि। यस्याम्बुजस्य पद्मस्यैवमनेनाकारेण स्थितिरवस्थितिस्तत्राम्बुजे श्रियो लक्ष्म्या वसतिर्वासो युक्त एव / तदाह—नालस्य नालायाः प्रसरो विस्तारः, अथ च न आलस्यस्यालसतायाः प्रसर आधिक्यम् / जलेष्वपि तोयेषु कृतावासस्य, अथ च मूर्खेष्वपि कृतावासस्य / कोषे कुड्मले रुचिः कान्तिः, अथ च कोषे पात्रेऽर्थसाथै वा रुचिः प्रीतिः / दण्डे प्रकाण्डे कर्कशता काठिन्यम् , अथ च दण्डे शासने कर्कशता कार्कश्यम् / मुखे उपक्रमे मृदुता कोमलता, अथ च मुखे वदने मृदुता मधुरवाणीकता / मित्रे सूर्ये महान् प्रश्रयः प्रीतिः, अथ च मित्रे सुहृदि महाप्रीतिः / आमूलं मूलादारभ्य गुणस्य तन्तोः संग्रहे ग्रहणे व्यसविता आसङ्गः, अथ चामूलमादिपुरुषादारभ्य गुणानां शीलादीनां संग्रहे वर्तुली. करणे व्यसनिता प्रयत्नः / दोषाकरे रजनिकरे द्वेषोऽसूया, अथ च दोषाणामाकरे उत्पत्तिस्थाने जने द्वेषोऽप्रीतिः / 'नालो नालमथास्त्रियाम्' इत्यमरः / 'जलं नीरे च मूर्खे च' इति विश्वः / 'कोषोऽस्त्री कुङ्मले पात्रे ह्यर्थसंघातदिव्ययोः।' इति मेदिनीकारः। 'दण्डं प्रकाण्डे शास्तौ च' इति / 'मुखमास्ये च प्रारम्भे' इति / "मित्रं सुहृदि मित्रोऽर्के' इति / 'शिफायां कारणे मूलम्' इति / 'गुणस्तन्तौ च शीलादौ' इति / 'दोषः स्याद्दूषणे दोषा रात्रौ बाहौ च कीर्तिता।' इति / 'वसतिः स्यादवस्थाने' इति विश्वः / अत्र पद्मसज्जनयोः प्रसिद्धिसिद्धमुपमानोपमेयत्वमत उभयार्थकविशेषणपदैरश्लेष इव सादृश्यमभिधीयते / प्रशंसापरतया च श्लाघावत्त्वम् // प्रतीयमानाभिधीयमानसादृश्या श्लाघागऱ्यावती तुल्यातुल्यविशेषणा यथा'उपाध्वं तत्पान्थाः पुनरपि सरो मार्गतिलकं यदासाद्य खेच्छं विलसथ विलीनक्लमभराः / इतस्तु क्षाराब्धेर्जरठकमठक्षिप्तपयसो निवृत्तिः कल्याणी न पुनरवतारः कथमपि // 97 // ' अत्र पूर्वार्धेऽभिधीयमानसादृश्ययोः श्लाघा, पश्चिमार्धे तु प्रतीयमान