________________ 460 काव्यमाला। अनुभयवती यथा'इतः खपिति केशवः कुलमितस्तदीयद्विषा मितश्च शरणार्थिनः शिखरिपक्षिणः शेरते / इतोऽपि वडवानलः सह समस्तसंवर्तकै रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः // 95 // ' अत्र गर्दा श्लाघा वा विस्मयोक्तावेवास्तमयते / सेयं प्रतीयमानसादृश्यानुभयवती नाम समासोक्तिः / इत इत्यादि / सिन्धोः समुद्रस्य वपुराशयो विततं विस्तीर्णमूर्जितं बलवत् भारवहनक्षमं च / अत्रैवाश्चर्यम् / इतोऽत्रैव हरिर्वसति, अत्रैव केशवरिपूणामसुराणां पुरं नगरमस्ति / अत्रैव शरणं प्राप्तः शिखरिणां पर्वतेषु मध्ये पक्षिणः सपक्षा मैनाकादयः शेरते खपन्ति / नच शिखरिपक्षिण इत्यत्र 'न निर्धारणे 2 / 2 / 10' इति षष्ठीसमासनिषेध इति वाच्यम् / तन्निषेधस्यानित्यत्वान्निर्धारणस्याविवक्षणाद्वा निर्धारणद्योतकजात्यादेरभावेन तदुनयनात् , यद्वा शिखरिणश्च ते पक्षिणश्चेति विशेषणसमासः / पूर्वनिपाते तु बहुष्वेकत्र नियम इति व्यवस्थितिः / अत्रैव वडवानलोऽस्ति सकलमेधैः सह / 'पुष्करावर्तसंवर्तकालकान्तिजलप्लवाः। इति वारिमुचां वंशश्चतुर्धा परिकीर्तितः // ' इति पुराणम् / अत्र श्लाघागहयोरस्तमनादनुभयवतीयम् // अभिधीयमानसादृश्या श्लाघावती तुल्याकारविशेषणा यथा'नालस्य प्रसरो जलेष्वपि कृतावासस्य कोषे रुचि दण्डे कर्कशता मुखेतिमृदुता मित्रे महान्प्रश्रयः / आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे __ यस्यैषा स्थितिरम्बुजस्य वसतियुक्तैव तत्र श्रियः // 96 // ' अत्राम्बुरुहसत्पुरुषयोः परस्परमुपमानोपमेयभावस्यातिशयप्रसिद्धरुपमानेनैव श्लेषवत्तुल्यविशेषणपदाभिधीयमानसादृश्यमुपमानमुपमेयमेवाव 1. टीकाकृता तु 'पुरमितस्तदीयद्विषा-' इति पाठो धृतः.