________________ 4 परिच्छेदः। सरखतीकण्ठाभरणम् / 459 घना निबिडा छाया यस्य तादृशोऽसि तदा छायया किं वृथा / यदि संपन्नः समृद्धः सन् फलितोऽसि तदा फलभरैस्तव किम् / किंतु न तव किमपि / यद्याढ्योऽसि महानसि तदा सम्यकप्रकारेण नतः किम् / संप्रत्यधुना खैर्निजैरेव दुश्चेष्टितैर्जनतो लोकात्त्वं शिखायामग्रभागे शाखाशतस्याकर्षणमाकृष्टिः, क्षोभश्चालनम् , आमोटनं संकोचनम् , भञ्जनं छेदनमेतानि सहखानुभव / 'आन्य इभ्ये महत्यपि'. इति विश्वः / सहखेति 'षह मर्षणे' इति लोटि मध्यमपुरुषैकवचने रूपम् / 'अग्रमात्रे शिखा मता' इति धरणिः / जनत इति पञ्चम्यन्तात्तसिः / व्याजगर्हणा कपटनिन्दा वटवृक्षनिन्दा व्याजीकृत्य सत्पुरुषनिन्दोपक्रमात् // सैवोभयवती यथा. 'निष्कन्दामरविन्दिनी स्थपुटितोद्देशां स्थली पल्वले जम्बालाविलमम्बु कर्तुमपरा सूते वराही सुतान् / दंष्ट्रायां चतुरर्णवोर्मिपटलैराप्लावितायामियं यस्या एव शिशोः स्थिता विपदि भूः सा पुत्रिणी पोत्रिणी 94' - अत्र पूर्वार्धे गर्दा, उत्तरार्धे श्लाघा गम्यते, सेयं प्रतीयमानसादृश्योभयवती समासोक्तिः / . निष्कन्दामित्यादि / इतरान्या वराही सूकरी सुतान् सूकरान् सूते जनयति / किं कर्तुम् / अरविन्दिनीं निष्कन्दामुन्मूलितमूलां कर्तुं, स्थपुटितो निम्नोनतीकृत उद्देशो यस्यास्तादृशीं स्थली कर्तु, पल्वलेऽल्पसरसि अम्बु जलं जम्बालेन कर्दमेनाविलमनच्छं कर्तुम् / सा पोत्रिणी वराही पुत्रिणी प्रशस्तपुत्रवती / यस्याः शिशोरेव बालकस्यैव दंष्ट्रायामियं भूर्विपदि प्रलये स्थिता / दंष्ट्रायां कीश्याम् / चतुर्णामर्णवानां समुद्राणामूर्मिपटलैः कल्लोलसमूहैराप्लावितायां पूरितायाम् / व्याप्तायामिति यावत् / 'जम्बालः. पङ्कोऽस्त्री' इत्यमरः / वराहीति 'पंयोगादाख्यायाम् 4 / 1 / 48' इति ङीष् / पुत्रिणीति प्रशंसायामिनिः / 'वराहः सूकरो गृष्टिः कोलः पोत्री' इत्यमरः / अत्रोभयोः सादृश्यं वराहत्वादिना प्रतीयमानम् //