________________ 458 काव्यमाला। बन्धुर्वा स पुराकृतः किमथवा सत्कर्मणां संचयो ___मार्गे रूक्षविपत्रशाखिनि जनो यं प्राप्य विश्राम्यति // 12 // ' अत्र न्यग्रोधेनैवोपमानेन प्रतीयमानसादृश्यस्य वर्णनीयवदान्योपमेयस्योक्तत्वात्तच्छाघयैव तच्छाधा प्रतीयत इति सेयं प्रतीयमानसादृश्या लाघावती समासोक्तिः // . उत्तुङ्गे इत्यादि / तस्य न्यग्रोधस्य वटवृक्षस्य श्लाघा स्वप्रशंसा खवचसोक्त्या किं समाप्यते। किंतु न / तस्य श्लाघा वक्तुमशक्येत्यर्थः / अङ्गेति सानुनयसंबोधने / कीदृशस्य / उत्तुङ्गे उच्छ्रिते / उच्चावचा निनोन्नता ये ग्रावाणः पाषाणास्तद्युक्ते च शिखरिणि गिरौ कृतावासस्य / श्लाघाहेतुमाह-स वटो बन्धुर्मित्रं वा पुरा पूर्व कृतः। अर्थाजनेन / अथवा सत्कर्मणां श्रेष्ठव्यापाराणां संचय उपचयः किम्। अर्थाजनस्य / रूक्षा अस्निग्धा विपत्राः पत्रशून्याः शाखिनो वृक्षा यत्र तादृशे मार्गे यं वटवृक्षं प्राप्य जनो विश्राम्यति / उच्चावचेत्यत्र बहुव्रीह्यनन्तरं मतुबिति भ्रमो न कार्यः / उच्चावचग्रावाणोऽत्र सन्तीति विशिष्टस्यैव मत्वर्थसंबन्धाद्विसकिसलयच्छेदपाथेयवन्त इतिवत्केवलाद्विशिष्टस्य भिन्नबुद्धिविषयत्वात् / अत एवादण्डीत्यादयो निस्तरङ्गं प्रयोगा इत्यवधेयम् / 'ग्रावोपलाश्मानः' इत्यमरः / अत्र परोपकारितया न्यग्रोधवदान्ययोः सादृश्यं प्रतीयमानं तत एवोभयोः श्लाघापि // सैव गर्दावती यथा'किं जातोऽसि चतुष्पथे यदि घनच्छायोऽसि किं छायया ___ संपन्नः फलितोऽसि किं यदि फलैः पूर्णोऽसि किं संनतः / : हे सद्वृक्ष सहख संप्रति शिखाशाखाशताकर्षण क्षोभोन्मोटनभञ्जनानि जनतः खैरेव दुश्चेष्टितैः // 93 // अत्रोपमानभूतस्य सद्वृक्षस्य व्याजगहणया तदुपमेयः कोऽपि सत्पुरुषो विगर्यत इति सेयं प्रतीयमानसादृश्या गरेवती नाम समासोक्तिः। किमित्यादि / हे सदृक्ष, चतुष्पथे किमर्थं जातोऽस्युत्पन्नोऽसि / यदि त्वं 1. 'आढ्योऽसि' इति टीकाकारसंमतः पाठः.