________________ 4 परिच्छेदः। सरस्वतीकण्ठाभरणम् / 457 द्रव्याणां प्रधानक्रियाध्यारोपे धर्मिधर्माध्यासे मेलितं नाम समाधेरेव मेदो भवति / देहो व्व इत्यादि / 'देह इव पतति दिवसः कण्ठच्छेद इव लोहितो भवति रविः / गलति रुधिरमिव संध्या घूर्णते केशकृष्णं शिर इव तिमिरम् // ' इह दिनमामिव पतति, रक्तः सूर्यः कण्ठच्छेद इव भवति, रक्तमिव संध्या गलति, तिमिरं केशश्यामं शिर इव घूर्णते इतस्ततो याति / अत्र पतनादयः क्रिया, लौहित्यादयो गुणाः, प्रधानक्रियाः पततीत्यादिकाः, तदध्यारोपो दिवसादिषु / इति समाध्युक्त्यलंकारनिरूपणम् // समासोक्त्यलंकारनिरूपणम् // समासोक्तिं लक्षयति यत्रोपमानादेवैतदुपमेयं प्रतीयते / अतिप्रसिद्धेस्तामाहुः समासोक्ति मनीषिणः // 46 // प्रतीयमाने वाच्ये वा सादृश्ये सोपजायते / श्लाघां गर्हामुभे नोभे तदुपाधीन्प्रचक्षते // 47 // विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा। अस्त्यसावपराप्यस्ति तुल्यातुल्यविशेषणा // 48 // संक्षेपेणोच्यते यस्मात्समासोक्तिरियं ततः। सैवान्योक्तिरनन्योक्तिरुभयोक्तिश्च कथ्यते // 49 // . यत्रेति / यत्रातिप्रसिद्धतयोपमानादेवैतस्योपमेयस्य ज्ञानं सा समासोक्तिः / समसन समासः संक्षेपस्तदुक्तिरित्यन्वर्थतापि / प्रतीयमाने ज्ञायमाने वाच्येऽभिधीयमाने च सादृश्ये / श्लाघां प्रशंसाम् , गहीं निन्दाम् / उभे श्लाघागहें च, नोमे अश्लाघागर्हे चैतानुपाधीन्प्रयोजकान् समासोक्तौ वदन्ति / विशेष्यमात्राभ्यां युक्तायुक्ताभ्यां भिन्नापि विशेषणद्वयमेदवती एका तुल्याकारविशेषणा, अपरा तुल्यातुल्यविशेषणा / संक्षेपोक्तौ च प्रकारद्वयं भवति तदाह-अन्येत्यादि / तत्र प्रतीयमानसादृश्या श्लाघावती यथा'उत्तुङ्गे कृतसंश्रयस्य शिखरिण्युच्चावचग्रावणि न्यग्रोधस्य किमङ्ग तस्य वचसा श्लाघासु पर्याप्यते /