________________ 456 काव्यमाला। अत्रान्यधर्माणामेवान्यवस्तुन्यध्यासान्मेलितं यथा-- 'पल्लविअं विअ करपल्लवेहिं पप्फुल्लिअं विअ णअणेहिं / फलिअं विअ पीणपओहरेहिं अज्जाए लावण्णम् // 10 // पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितमिव नयनाभ्याम् / फलितमिव पीनपयोधराभ्यामार्याया लावण्यम् // ] अत्र पल्लवितमिव पुष्पितमिव फलितमिवेत्युत्प्रेक्षया लताधर्माणां लावण्यधर्मिणि धर्माध्यारोपो दृश्यते / करपल्लवादीनां चानुपात्तव्यापारहेतुत्वेन साधकतमत्वेन वा प्राधान्यं लक्ष्यते / सोऽयमन्यवस्तुनि पुनरन्यधर्माणामेवारोपेण मेलितं नाम समाधेरेव भेदो भवति / स तूद्देशे समाध्युक्तिरित्युक्तिग्रहणाल्लभ्यते / पल्लविअमित्यादि / 'पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितमिव नयनाभ्याम् / फलितमिव पीनपयोधराभ्यामाया लावण्यम् // ' इहार्याया गृहपतिपुत्र्या नायिकाया लावण्यं सौकुमार्य हस्तपल्लवाभ्यां पल्लवितमिव नेत्राभ्यां फुल्लितमिव पीनस्तनाभ्यां फलितमिवास्ति / अध्यारोपे बीजमाह-उत्प्रेक्षयेति / तर्हि करपलवादीनामध्यारोपाबहिर्भाव एव भवेदत आह-करेति / अनुपात्तोऽनुक्तो यो व्यापारोऽध्यासविषयस्तद्धेतुत्वेन तदुपस्थितिकारणत्वेन तत्करणत्वेन वा / अत एव कञपेक्षया प्रधानतया स्वातन्त्र्येणान्वयस्तेषामित्यर्थः / तर्हि समाध्युद्देशेऽनुद्देशः कथमस्त्यत आह–स त्विति / समाध्युक्तिरित्यत्र समाधिरिति कर्तव्ये उक्तिग्रहणमधिकार्थसूचकमित्युक्तिपदेनैव मेलितोद्देशः कृत इत्यर्थः // धर्माणां धर्मिणश्च यथा'देहो ब पडइ दिअहो कण्ठच्छेओ व लोहिओ होइ रई। गलइ रुहिरं ब संझा घोलइ केसकसणं सिरम्मिअ तिमिरम् // 11 // देह इव पतति दिवसः कण्ठच्छेद इव लोहितो भवति रविः / गलति रुधिरमिव संध्या घूर्णते केशकृष्णं शिर इव तिमिरम् // ] अत्र देहादयो यथोक्तक्रियावन्तो जन्तुवधक्रियायां निबद्धा दिवसादिभिरुपमेया दिवसावसानक्रियायां मेलितास्तदेतत् गुणक्रियावतां