________________ 4 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 455 भवता तत्र तयोः केशिकंसयोर्मध्ये कः पूर्वं हत इति / सिद्धौ च तौ युवानौ चेति सिद्धयुवानौ / केशी असुरभेदः / कंसोऽप्यसुरभेदः / अत्र विष्णोस्तद्धर्माणां च चक्रधरत्वादीमामारोपः स्फुट एव // धर्मिण एवाध्यासो यथा'प्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मन्थखेदं विदध्या निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि / सेतुं बध्नाति कस्मात्पुनरयमखिलद्वीपनाथानुयातस्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः // 89 // ' अत्र प्राप्तश्रीरेष कस्मादित्यादिभिर्मन्थखेदादिधर्माणां निवर्तितत्वात् प्राप्तश्रीरित्यादीनां च श्लेषेणैवाभिधानात् त्वयीति वर्णनीयपदे विष्णुखरूपस्य धर्मिण एवाध्यासात् तद्धर्माणां चानध्यासादयं धर्म्यध्यासरूपः समाधिः // प्राप्तेत्यादि / हे रामदेव, समुद्रस्य कम्प आभाति / कीदृशस्य / खव्याघाते सति इति वितर्कान् दधत इव / एष प्राप्तलक्ष्मीः कोऽपि कस्मात्पुनरपि मद्विषये मन्थेन मन्थनदण्डेन खेदं विदध्यात्कुर्यात् / अनलसमनस आलस्यहीनस्यास्य निद्रामप्यपूर्वां नैव संभावयामि / अखिलद्वीपनाथो रावणस्तमनुलक्ष्यीकृत्य यातः प्रयातः पुनरयं कस्माद्धेतोः सेतुबन्धं बध्नाति / मथ्यतेऽनेनेति मन्थः / करणे 'हलश्च 3 / 3 / 12' इति घञ् / अत्र प्राप्तश्रीरित्यादिश्लिष्टपदैर्धर्मिण एव विष्णुरू· पस्यारोपो न तु तद्धर्माणामसुरघातकत्वादीनाम् // समाधिमेलितयोरभेदमाह समाधिमेव मन्यन्ते 'मे(मी)लितं तदपि द्विधा / धर्माणामेव चाध्यासे धर्मिणां वान्यवस्तुनि // 45 // समाधिरेव मेलितमुभयत्रापि धर्माध्यासात् // 1. 'आधारपुस्तकद्वये टीकापुस्तके च मेलितमिति पाठः समुपलभ्यते / परं काव्यप्रकाशादिषु तथा सरस्वतीकण्ठाभरणात्प्राचीने रुद्रटविरचिते काव्यालंकारेऽपि 'मीलितम्' इत्येव वरीवर्तीति तदनुरोधादत्रापि 'मीलितं,' 'मिलितं' वा युक्तं प्रतिभाति.