________________ 464 काव्यमाला / चित्रा यथा'कमलमनम्भसि कमले कुवलये तानि च कनकलतिकायाम् / सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् // 101 // ' अत्राध्यासः पूर्ववद्वैचित्र्यं च निगदेनैव व्याख्यातम् / सेयमनन्योक्तिः समासोक्तिरेवानेकाध्यासवैचित्र्याच्चित्रत्युच्यते // . कमलमित्यादि / अनम्भसि जलशून्ये देशे कमलमस्ति / कमले पुनः कुवलये नीलनलिनद्वयम् , तानि च कमलकुवलयानि कनकलतिकायां सुवर्णलतायाम् , सा च कनकलतिका सुकुमारा कोमला सती सुभगा रम्येत्यनेन प्रकारेण केयमुत्पातपरम्परारिष्टपतिः / 'उत्पातोऽरिष्टमित्यपि' इत्यमरः / पूर्ववदिति / कस्याश्चिन्मुखादौ कमलाद्यारोपः, विचित्रता च कमलादौ कुवलयाद्यभिधानेनैवोक्ता तस्या एवाभिधानादनन्यतयोक्तिः // उभयोक्तिर्यथा'लावण्यसिन्धुरपरैव हि केयमत्र यत्रोत्पलानि शशिना सह संप्लवन्ते / उन्मज्जति द्विरदकुम्भतटी च यत्र __यत्रापरे कदलिकाण्डमृणालदण्डाः // 102 // अत्रापूर्वेयं लावण्यसिन्धुरित्यन्योक्तिः, यत्रोत्पलानि शशिना सह संप्लवन्त इत्यादिरनन्योक्तिः, सेयमुभययोगादुभयोक्तिरपदिश्यते / उपलक्षणं चैतत् / तेनान्यापि योपमानोपमेयविषये संक्षेपोक्तिः सापि समासोक्तिरेव भवति / लावण्येत्यादि / अत्र देशेऽपरैवापूर्वैव केयं लावण्यसिन्धुः सौकुमार्यनदी। यत्र चन्द्रेण सह पद्मानि संप्लवन्ते संमिलितानि भवन्ति / यत्र कुम्भिकुम्भतटी उन्मज्जति उत्थिता भवति / यत्रापरेऽन्ये कदलीप्रकाण्डबिसदण्डाः सन्ति / 'सिन्धुरब्धौ पुमानद्यां स्त्रियाम्' इति मेदिनीकारः / 'तीरदेशे तटी मता' इति च / अत्र सिंधूक्त्यान्योक्तिता, यत्रेत्यादिना सिन्धुरेवोक्तेत्यनन्योक्तिता / अन्यानन्यातिरिक्तसमासोक्तिं संगृह्णाति-उपलक्षणमिति //