________________ 1 परिच्छेदः / सरखतीकण्ठाभरणम् / 453 समाधिरिति / अन्यधर्मस्यान्यत्र विशेषे य आरोपः स समाधिः / निरूवेदोऽव्यक्तः, सोद्भेदः स्फुटः // तयोनिरुद्भेदो यथा'दूरपडिबद्धराए अवऊहत्तम्मि दिणअरे अवरदिसम् / असहन्तिव किलिम्मइ पिअअमपञ्चक्खदूसणं दिणलच्छी 85 दूरप्रतिबद्धरागेऽवगृहमाने दिनकरेऽपरदिशम् / असहमानेव क्लाम्यति प्रियतमप्रत्यक्षदूषणं दिनलक्ष्मीः // ] अत्र दिनकरदिनलक्ष्मीप्रतीचीनां समारोपितनायकनायिकाप्रतिनायिकाधर्माणां दूरप्रतिबद्धराग इत्यादिभिः श्लिष्टपदैरनुद्भेदः / एवमन्यधर्माध्यारोपादयं निरुद्भेदः समाधिभेदः // दूर इत्यादि / 'दूरप्रतिबद्धरागेऽवगूहमान एव दिनकरेऽपरदिशम् / असहमानेव क्लाम्यति प्रियतमप्रत्यक्षदूषणं दिनलक्ष्मीः // ' इहात्यर्थधृतलौहित्येऽत्यर्थकृतानुरागे च दिनकरे सूर्ये वल्लभे चापरंदिशं प्रतीचीमपरनायिकां चावगूहमाने संबनात्याश्लिष्यति च सति दिनशोभा वल्लभस्फुटदूषणमसहमानेव क्लाम्यति म्लाना भवति / अत्र च नायकत्वाद्यारोपणं रागादिपदैः श्लिष्टैः क्रियत इति निरुद्भेदता // सोद्भेदो यथा'वल्लहे लहु वोलन्तइ एत्तइ पुणु बहु बलि किजमि तामरसिणि तुज्झ रोसहु थिरहु / जेण णिरग्गल जम्पइ किम्पिं ण जाव जणु(ण) ताव हिमेण विसित्ति झस्थि(त्ति) पुलुट्ठतणु // 87 // " विल्लभे लघु व्यपक्रामत्यागच्छति पुनर्बहु बलिः क्रिये तामरसिनि तव रोषस्य स्थिरस्य / / ... ' येन निरर्गलं जल्पति किमपि न यावज्जन स्तावद्धिमेन विशीर्णा झटिति प्लुष्टतनुः // ] अत्रापि प्रियतमव्यलीकासहिष्णुः कापि कामिनी हिमानीप्लुष्यं