________________ 152 काव्यमाला। उर इत्यादि / 'उरःप्रेरितवृतिकारवेल्लीफलान्युच्चिनोषि दयितवत्सले / कण्टकविलिखितपीनोन्नतस्तनि ताम्य इदानीम् // ' इह हे दयितवत्सले प्रियप्रेमवति कण्टकलिखितपीनोन्नतस्तनि, इदानीं ताम्योद्विग्ना भव / किं कृत्वा / उरसा वक्षसा प्रेरिता या वृतिर्वेष्टनं तत्र कारवेल्लीफलानि उच्चिनोषि त्रोटयसि / कारवेल्ली करवेल्ली। अत्र पूर्वार्धे कारणकथनात्पूर्वता / उक्तयोरनौपम्यं व्यक्तमेव / ननु नात्र साहजिकोऽपह्नवस्तत्कथमपह्नुतिरत आह–अपहत्येति / आरोपेणापह्नवलक्षणयोगादपहुतिरित्यर्थः // सैवापूर्वा यथा'कस्स व ण होइ रोसो दण पिआइ सव्वणं अहरम् / सभमरपउमग्याइणि वॉरिअवामे सहसु एण्हिम् // 85 // कस्य वा न भवति रोषो दृष्टा प्रियायाः सव्रणमधरम् / सभ्रमरपद्माघ्रायिणि वारितवाम्ये सहवेदानीम् // ] अत्रापि नास्या उपपतिनाधरो व्रणितः किं तर्हि भ्रमरेणेति प्रतीयमानापह्रोतव्यं वस्तु / पूर्वार्धे तु सत्रणमधरमिति कार्यमुपन्यस्य, पश्चिमाघे सभ्रमरकमलाघ्रायिणीति कारणमुपन्यस्तम् / सेयमनौपम्या प्रतीयमानापह्रोतव्यवस्तुरपूर्वा च यथोक्तलक्षणयोगाज्जायते / कस्स व इत्यादि / 'कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सत्रणमधरम् / सभ्रमरपद्माघ्रायिणि वारितवाम्ये सहखेदानीम् // ' इह प्रियाया अधरं सक्षतं दृष्ट्या कस्य रोषो न भवति / ततो हेतोभ्रमरसहितपद्मस्याघ्राणकारिके, हे वारितवाम्ये दाक्षिण्यवति, संप्रति त्वं सहस्व सहिष्णुर्भव / अत्रोत्तरार्धे कारणोपन्यासादपूर्वता। पूर्ववदाशङ्कासमाधाने इत्याह-यथोक्तेति / इत्यपहृत्यलंकारनिरूपणम् // समाध्युक्त्यलंकारनिरूपणम् // समाधिलक्षणमाह समाधिमन्यधर्माणामन्यत्रारोपणं विदुः / निरुद्भेदोऽथ सोद्भेदः स द्विधा परिपठ्यते // 44 // 1. 'वारिता अधरदर्शनपर्यवसायिसभ्रमरपद्माघ्राणं निधुवनं च मा कृथा इति निवारितापि वामा निवारिताचरणा प्रतिकूला' इत्युदाहरणचन्द्रिका..