________________ 4 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 451 पूर्वमेवाभिहितस्य च वनानिलशैत्यलक्षणेन कारणान्तरेणापह्नवः / न चैतयोः सादृश्यमस्ति सेयमनौपम्याभिधीयमानापह्रोतव्यवस्तुः / कार्यात्पूर्वं कारणोपन्यासेन पूर्वेत्युच्यते / राजेत्यादि / रोमोद्भेदेन रोमाञ्चेन राजकन्यानुरक्तं भूपकन्यानुरागिणं मां रक्षकास्तदवेक्षका अवगच्छेयुर्ज्ञायेरन् / आं स्मरणे, ज्ञातम् / अहो वनं शीतलानिलम् / अतो रोमाञ्चः / 'आं ज्ञाननिश्चयस्मृत्योः' इति मेदिनीकारः / अत्र पूर्वाभिधानेन पूर्वत्वमुभयोरसादृश्यादनौपम्यता // सैवापूर्वा यथा 'आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकाम् / अक्षि मे पुष्परजसा वातोद्भूतेन पूरितम् // 83 // ' अत्रानन्दाश्रुप्रवृत्तमिति पूर्व कार्यस्य, पश्चात् दृष्ट्वैव कन्यकामिति कारणस्योपन्यासः / शेषं पूर्ववत् / सेयमभिधीयमानापह्रोतव्यवस्तुरनौपम्यापह्नुतिरपूर्वेत्युच्यते / . __ आनन्देत्यादि / कन्यकामेव दृष्ट्वा कथं ममानन्दाश्रु प्रवृत्तमस्ति / वातोद्भूतेन रजसा वायुचालितधूल्या ममाक्षि पूरितम् / शेषमपह्नवादिकं पूर्ववत्पूर्वापहृतिवत् / अभिधानमनौपम्यमपि पूर्ववदेव पूर्व कारणानुपन्यासेनापूर्वत्वम् // अनौपम्यैव प्रतीयमानापह्रोतव्यवस्तुः पूर्वा यथा'उरपेल्लिअवइकारिल्लआइं उच्चेसि दइअवच्छलिए / कण्टअविलिहिअपीणुण्णअत्थणि उत्तम्मसु एत्ताहे // 84 // [उरःप्रेरितवृतिकारवेल्लीफलान्युच्चिनोषि दयितवत्सले। कण्टकविलिखितपीनोन्नतस्तनि उत्ताम्येदानीम् // ] अत्र नैतस्याः स्तनयोरुपपतिना नखक्षतं कृतमपि तु कण्टकैरिति प्रतीयमानापहोतव्यं वस्तु प्रकाशते / पूर्ववदेव च पूर्वार्धे कारणस्योपन्यासः, पश्चिमार्धे तु कार्योपदेशो दृश्यते / सेयमनौपम्या प्रतीयमानापह्रोतव्यवस्तुः पूर्वा नाम-'अपह्नतिरपहृत्य किंचिदन्यार्थदर्शनम्' इति. लक्षणयोगाज्जायते /