________________ 450 काव्यमाला। तत्राभिधीयमानौपम्यवती यथा'गिम्हे दवग्गिमसिमइलिआई दीसन्ति विज्झसिहराई। . आससु पउत्थवइए ण होन्ति णवपाउसब्भाइं / / 80 // ' [ग्रीष्मे दावाग्निमसीमलिनानि दृश्यन्ते विन्ध्यशिखराणि / __ आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृडभ्राणि // ] अत्र नवप्रावृडभ्राणां विन्ध्यशिखरैरभिधीयमानसादृश्यैरपद्भुतत्वादभिधीयमानौपम्यवत्यपह्नुतिः // . गिम्हे इत्यादि / 'ग्रीष्मे दावाग्निमसीमलिनितानि दृश्यन्ते विन्ध्यशिखराणि / आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृडभ्राणि // ' इह विरहिणी दावाग्निना दिग्धे विन्ध्ये मेघभ्रान्त्या आर्ता सख्या समाश्वास्यते-ग्रीष्म इति / हे विरहिणि, विन्ध्यशिखराणि ग्रीष्मे वनाग्निना श्यामितानि दृश्यन्ते / नतु नूतनवर्षाकालीन(लिक)मेघा अमी भवन्तीति समाश्वासं कुरु / अत्र श्यामिकया विन्ध्यशिखरनवमेघयोः साम्यमभिहितमत औपम्यवतीयम् // प्रतीयमानौपम्यवती यथा'न केतकीनां विलसन्ति सूचयः प्रवासिनो हन्त हसत्ययं विधिः / तडिल्लतेयं न चकास्ति चञ्चला पुरः स्मरज्योतिरिदं विजृम्भते 81' अत्र केतकीसूचीनां विधिविहसितैः प्रतीयमानसादृश्यैस्तडिल्लतायाश्च स्मरज्योतिषापहृतत्वादियं प्रतीयमानौपम्यवत्यपह्नतिः // नेत्यादि / केतकीनां सूचयोऽग्राणि न विलसन्ति शोभन्ते / हन्त विषादे / अयं विधिः स्रष्टा प्रवासिनः पान्थान् हसत्युपहसति / केतकीसूचीरूपेण / इयं चञ्चला चपला तडिल्लता न शोभते / पुरोऽग्रे इयं स्मरदीप्तिर्विजृम्भते प्रकाशते / 'सूच्यग्रे सीमनद्रव्ये' इति विश्वः / अत्र किंचित्प्रकाशेन केतकीसूचीविधिहसितयोः साम्यप्रतीतिरेवमितरत्र / औपम्यमप्युभयत्र व्यक्तमेव // अनौपम्याभिधीयमानापह्रोतव्यवस्तुः पूर्वा यथा 'राजकन्यानुरक्तं मां रोमोद्भेदेन रक्षकाः / अवगच्छेयुरां ज्ञातमहो शीतानीलं क्नम् // 82 // ' अत्र राजकन्यानुरागलक्षणस्य रोमाञ्चकारणस्य रक्षकावगतिहेतोः