________________ 448 काव्यमाला / सरोजेत्यादि / निलीनाः संबद्धाः षट्पदा भ्रमरा ययोस्ते पद्मपन्ने नु। इमे विशालदृष्टेर्नायिकाया अमू नेत्रे / स्वित् / वितर्के। शिरोरुहाः केशाः स्वित् / मता पक्ष्मसंततिर्यस्य तत् / निशब्दं शब्दशून्यं निश्चलं स्थिरं च भ्रमरवन्दं नु // अगूढेत्यादि / एतन्मुखं स्वित् / कीदृशम् / अगूढेन प्रकाशेन हासेन स्फुदो व्यक्तो दन्त एव केसरो यत्र तत् / एतद्विकचं प्रफुल्लं पङ्कजं नु / इत्यनेन प्रकारेण नलिनीवने पद्मिनीमध्ये प्रलीनामवस्थितां सखीं योषितः स्त्रियो बहुकालेन विदाम्बभूवुर्ज्ञातवत्यः / विदाम्बभूवुरित्यत्र 'उषविद 3 / 1 / 38' इति लिट्याम् // यथा च . 'मुहे मअखलिउल्लावे ण्हाणोल्लए चिउरे वेणीअंसणसारे समोत्तिअहारे उरे / कालान्तरे तरलाच्छिहुमअण समुल्लसइ ___माहउ पुण स्थणगुडरे ण मुणइ कहिं वसइ // 79 // [मुखे मदस्खलितोल्लापे स्नानोत्प्लुते चिकुरे वेणीनिवसनसारे समौक्तिकहारे उरसि / कालान्तरे तरलाक्ष्णोर्मदनः समुल्लसति ___ माघे पुनः स्तनगृहे न ज्ञायते कुत्र वसति // ] कः पुनर्वितर्कसंशययोर्विशेषः / उच्यते / निर्णयासन्नो वितर्कः, वितर्कासन्नश्च संशयः / संशयानो हि वितर्कस्य कोटिमारुह्य ततो विभ्रष्टस्तत्त्वमभिनिविशते / यथा पूर्ववाक्ये विदाम्बभूवुरिति / संशयमेव वा विगाहते यथा---'माहउ पुण स्थणगुडरे ण मुणइ कहिं वसइ / ' इति / शब्दाश्च किंखिदादयस्तुल्यरूपा एव संशयविपर्यययोरिति दुरवबोधस्तद्विशेषः / नन्वेवं वितर्कादयोऽप्युभयालंकाराः स्युः / सत्यम् / किंतूक्तिपक्षे परार्थानुमानवत् , खरूपपक्षे खार्थानुमानवदिति / अयमेव चोक्तिशब्दस्यार्थः, तेन खरूपमात्रोक्तौ संशयवितर्कादयोऽप्यर्थालंकाराः / उक्तिप्राधान्ये तूभयालंकाराः //