________________ 4 परिच्छेदः। सरखतीकण्ठाभरणम् / 447 उल्लसितं स्खलितं नितम्बोपरि निवसनं यस्याः सा। उपरीति योग्यतया वक्तव्यम् / नि द्रया भेम्भली विह्वला ग्रहणं चन्द्रोपरागं श्रुत्वा विनिष्क्रान्ता / अर्थात् गृहात् / राहुरपि तस्या मुखं विलोकते पुनर्विलोकते। गगने भ्रान्तः संशयानः सन् नैव जानाति कान्तामुखचन्द्रयोयोर्मध्ये कश्चन्द्र इति / खलु एवार्थे / अत्र संशयशुद्धतान्यामिश्रणेन // अभिधीयमानसादृश्यो मिश्रो यथा'द्वावप्येतावभिनवजपापुष्पभासां निवासी तिष्ठत्यन्ते द्वयमपि वियन्मण्डलस्योपसंध्यम् / अस्तं को यात्युदयति च कः को रविः कः शशाङ्कः का च प्राची तदिह न वयं का प्रतीचीति विद्मः // 76 // ' अत्र द्वयोरभिधीयमानसादृश्ययोः सूर्याचन्द्रमसोः प्राचीप्रतीच्योर्वा तदन्यतममेकमेव वस्तु पर्यायतो विशङ्कयत इत्यनेकविषयोऽयं मिश्रः संशयः / उपलक्षणं चैतत् / तेन वितर्कोक्त्यादयोऽपि संशयोक्तावेव द्रष्टव्याः // द्वावित्यादि। द्वावप्येतो रविशशाङ्कौ नवीनजपाकुसुमदीप्तीनामाश्रयौ स्तः / उपसंध्यं संध्यासमीपे द्वयमपि रविचन्द्ररूपं वियन्मण्डलस्याकाशमण्डलस्यान्तेऽवसाने तिष्ठति / तदिह कोऽस्तं याति, को वोदयति।कः सूर्यः, कश्चन्द्रः, का प्राची पूर्वा दिक्, का प्रतीची पश्चिमा दिगिति न * वयं विद्मः / अत्र रक्तरूपतया गगनान्तगमनेन चाभिधीयमानं सादृश्यम् / अनेकविषयतयैव मिश्रता / तर्हि वितर्कोक्तिः पृथक् कथं नोक्तेत्यत आह-उपलक्षणमिति। संशयोक्तावेवान्तर्भावान पृथगुक्ता सेत्यर्थः॥ तद यथा'सरोजपत्रे परिलीनषट्पदे विशालंदृष्टेः खिदमू विलोचने / शिरोरुहाः खिन्नतपक्ष्मसंततेर्द्विरेफवृन्दं नु निशब्दनिश्चलम् // 77 // ' 'अगूढहासस्फुटदन्तकेशरं मुखं खिदेतद्विकचं नु पङ्कजम् / इति प्रलीनां नलिनीवने सखी विदाम्बभूवुः सुचिरेण योषितः / / ' (युग्मम्) 1. 'नु विलीन'. 2. 'विलोलदृष्टेः'. 3. 'विकसन्न' इति च पाठान्तराणि.