________________ काव्यमाला। ___ अत्र मुखलक्षणे लोचनलक्षणे चैकस्मिन्नेव पद्मलक्षणं भ्रमरलक्षणं चापरमपि वस्तु प्रतीयमानसादृश्यमाशङ्कयते सोऽयमप्येकविषय एवं संशयः॥ किमित्यादि / हे घनस्तनि कठिनकुचे, त्वां पश्यतो मम चित्तं दोलायते संशयारूढं भवति / तदेवाह-अन्तर्मध्ये भ्रान्तः कृतभ्रमणोऽलिभ्रमरो यत्र तत्किं पद्मम् / लोलमीक्षणं चक्षुर्यत्र तादृशं तव मुखं किमिति दोलायते दोलेवाचरति / क्यङ् क्यष् वा / दोलाचित्तयोरुभयकोटियोगित्वेन साम्यम् / अत्र सादृश्यं प्रतीयमानं प्रत्यक्षेण / सुगममितरत् // अनेकवस्तुविषयो द्विधा शुद्धो मिश्रश्च / तयोः प्रतीयमानसादृश्यः शुद्धो यथा'वाली भंभुरभोली(भम्भलभेली) उल्लसिअणिअंसिणी गहणं सुणिअ विनिकन्ता णिदाए मे(भ)म्भली / राहुवि तीअ मुहु जोहई पुण जोहई गअणु भुल्लल्लेओण हु आणई दोण्हवि चन्दु(न्द)कं वऍ(णे)७५ [बाला मूर्खचेटयुल्लसितनिवसना ___ग्रहणं श्रुत्वा विनिष्क्रान्ता निद्रया जडा / राहुरपि तस्या मुखं पश्यति पुनः पश्यति ..... गगने भ्रान्तिमान् न खलु जानाति द्वयोश्चन्द्रः कः // ] अत्र द्वयोः प्रतीयमानसादृश्ययोर्बालिकामुखचन्द्रयोरेकश्चन्द्र एव विशङ्कयत इति सोऽयमनेकविषयः शुद्धः संशयः // वालीत्यादि / 'बाली(ला) भुम्भुरभोली(?) स्खलितनिवसना ग्रहणकं श्रुत्वा विनिष्कान्ता निद्रया भेम्भली(जडा)। राहुरपि तस्या मुखं विलोकते पुनर्विलोकते गगने भ्रान्तो न खलु जानाति द्वयोश्चन्द्रः कः // इह बालिका भुम्भुरभोली अज्ञा। 1-2. 'आणतरिचेडिआ भेली' इति, ‘भम्भलसद्दो अप्पिअजडेसु' इति च देशीनाममाला. 3. 'वणे' इति विकल्पार्थे निपातः.