________________ 4 परिच्छेदः। सरस्वतीकण्ठाभरणम् / 415 अर्थयोरिति / अर्थयोर्वाच्ययोरतिसाम्याद्यत्र मनो दोलायते नैकत्र स्थिर भवति इदं वेदं वेति कृत्वा तं संशयमाहुः / स चैकविषयोऽनेकविषयश्च / यत्रैकस्मिन्धर्मिण्यनेकः शङ्कयते स एकविषयः। यस्मिन्नानाधर्मिण्येकः शक्यते सोऽनेकविषयः॥ / तयोराद्योऽभिधीयमानसादृश्यो यथा'आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः / मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तयाः सखि योगिनी किमसि भोः किं वा वियोगिन्यसि 73' अत्रैकस्मिन्वस्तुनि वस्तुद्वयस्याभिधीयमानसामान्यप्रत्यक्षं तद्विशेषप्रत्यक्षादुभयविशेषस्मरणाच यो विमर्शः सोऽयमेकविषयः संशयः // आहार इत्यादि / हे सखि, तद्रूयास्त्वं वद / किं योगिन्यसि योगवत्यसि किं वा वियोगिन्यसि वियोगवत्यसि / उभयसाधर्म्यमाह-आहारे भक्ष्ये विरतिपिरागः समस्ते विषयग्रामे स्रगादौ परात्यर्थं निवृत्तिः / नासाया अग्रे नयनं नासिकाग्रनिरीक्षणमित्यर्थः / एतद्यदपरं यच्च मन एकतानमचञ्चलं ध्येये पत्यौ च / इदं च मौनमवचनम् / इदमखिलं विश्वं यच्छून्यमाभाति / सर्वत्र तवेति योज्यम् / 'आहारलाघवं मौनं नासाग्रस्य च वीक्षणम् / मनःस्थैर्य वशित्वं च योगिनां विश्वशुन्यता // ' इति योगशास्त्रम् / 'भक्ष्ये विरागो नयनाग्रवीक्षा मौन मनोनिश्चलता वशित्वम् / विश्वस्य शून्यत्वविभावनं च वियोगिकृत्यं मुनयो वदन्ति // ' इति भरतः / अत्रैकस्मिन्वस्तुनि सखीविषये वस्तुद्वयस्य योगवियोगरूपस्याभिधीयमानं यत्साम्यं तस्य प्रत्यक्षाद्दर्शनात् / समानधर्मदर्शनादिति यावत् / विशेषाप्रत्यक्षाद्विशेषादर्शनादुभयविशेषयोगवियोगयोः स्मरणाद्विमर्शः संशयः / इह साधारणधर्मदर्शनं विशेषादर्शनमारोप्य कोटिद्वयस्मरणकारणमिति संशयकारणमुक्तम् // स एव प्रतीयमानसादृश्यो यथा'किं पद्ममन्तर्धान्तालि किं ते लोलेक्षणं मुखम् / मम दोलायते चित्तं पश्यतस्त्वां घनस्तनि // 74 // '.