________________ 444 काव्यमाला। सैव निषेधे वका यथा....'तद्वकं यदि मुद्रिता शशिकथा तच्चेस्मितं का सुधा तच्चक्षुर्यदि हारितं कुवलयैस्ताश्चेद्विरो धिङ्मधु / धिक् कंदर्पधनुर्बुवौ च यदि ते किं वा बहु ब्रूमहे ... यत्सत्यं पुनरुक्तवस्तुविरसः सर्गक्रमो वेधसः // 72 // ". . अत्रोपमानापकों वक्रोक्त्या च निषेधः / शेषं पूर्ववत् / ते इमे द्वे अपि मालोपमाच्छायया प्रपञ्चोक्तिपूर्वे, पुनः उपमाच्छाययेति मन्तव्यम् / / तद्वमित्यादि / तस्यास्तत्प्रसिद्धं मुखं यद्यस्ति तदा शशिकथा मुद्रिता लुप्ता / तन्मुखस्यैव चन्द्रत्वात्.। एवमन्यत्रापि / सर्वत्र तच्छब्दः प्रसिद्धौ / चेद्यदि तस्मितमीषद्धासस्तदा का सुधा किममृतम् / यदि तन्नेत्र तदा हारित नीलनलिनैः / यदि ता गिरो वाण्यस्तदा धिङ्मधु / यदि ते भ्रवौ च तदा कंदर्प: धनुर्धिक् / यद्वा किं बहु ब्रूमहे वदामो यत्सत्यं निश्चितं वेधसो धातुः सृष्टिक्रमः पुनरुक्तवस्तुषु द्विरुक्तपदार्थेषु विमुख एव / तथा च तद्वक्रादौ सति तचन्द्रादिसर्गों न स्यादिति भावः / 'ऊर्ध्वं दृग्भ्यां भ्रवौ स्त्रियाम्' इत्यमरः / अत्र कथामुद्रणादिना चन्द्रादेरेव निषेध इति वक्रोक्तिः / शेषं प्रपञ्चोक्तिच्छायत्वादिकं पूर्ववत् ऋजुप्रतिवस्तूक्तिवत् / अनयोः प्रपञ्चोक्तिच्छाया कथमित्यत आह-मालेति / यथा मालोपमायां विस्तरेणोपमितिस्तथात्र प्रपञ्चोक्तिरपि विस्तरेणेत्यर्थः // उत्पाद्येति यथोत्पाद्योपमायामुपमानार्थमुत्पाद्योपमेयेन प्रतीयमानमभिधीयमानं च सादृश्यमुक्तं तथा पूर्वयोरपीति प्रपञ्चोक्तिच्छायत्वमित्यर्थः // इति सामान्यालंकारनिरूपणम् // ...... संशयोक्त्यलंकारनिरूपणम् / . . संशयलक्षणमाह : अर्थयोरतिसादृश्यावत्र दोलायते मनः / तमेकानेकविषयं कवयः संशयं विदुः॥४१॥ तकविषयोऽनेको यस्मिन्नेकत्र शक्यते / यसिन्नेकमनेकत्र सोऽनेकविषयः स्मृतः॥ 42 // .. 1. 'हा हेम सा चेद्दयुतिः' इति पाठः. 2. 'स्तन्वेस्सितं का सुधा' इति पाठ: 3. 'वस्तुविमुखः सर्ग' इति पाठः.