________________ 4 परिच्छेदः / सरखतीकण्ठाभरणम् / 443 अत्रोपमेयोत्कर्षों वैकृतः, उपमानापकर्षः प्राकृतः प्रकाशत एव / या पुनरियमुत्तरार्धेन रूपकेणोपमानापकर्षस्योक्तिभङ्गिस्तयेयं प्रपञ्चोक्तिच्छायया विधौ वक्रा नाम प्रतिवस्तूक्तिः साम्यभेदः // ___एको इत्यादि / ‘एकोन्नामित भ्रूभङ्गे विमलकपोले वदने तव मृगाक्षि तिर्यइयने / एतच्छशिबिम्बं कलङ्कागारं पाण्डरमुत्क्षिप्तमुपरि भ्रामयित्वा निर्मञ्छनकपरम् // ' इह हे मृगाक्षि, तव वदन एतच्छशिबिम्बं निर्मञ्छनकर्परमुपरि भ्रामयित्वोत्क्षिप्तम् / कीदृशे वदने / एक उन्नामित उत्तोलितो भ्रभङ्गो यत्र तस्मिन् / विमलौ कपोलौ यत्र तस्मिन् / तिर्यग्नयने यत्र तस्मिन् / एतादृशस्य निर्मग्छनमुचितमेव / शशिबिम्बे निर्मञ्छनकर्परधर्ममाह-कलङ्क एवाङ्गारो यत्र तत्पाण्डरं श्वतं च / 'अङ्गारोऽलातमुल्मुकम्' इत्यमरः / 'कर्परोऽस्त्री कपालेऽपि' इति मेदिनीकारः / अत्रोपमेये वदने भ्रूभङ्गादेर्विकृतत्वप्रकाशः स्फुटः / उत्तमस्य निर्मञ्छनं क्रियत इत्युक्तिभङ्गी // सैव निषेधे ऋज्वी यथा'दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः सन्तश्चेदमृतेन किं यदि खलास्तत्कालकूटेन किम् / किं कर्पूरशलाकया यदि दृशोः पन्थानमेति प्रिया ___ संसारेऽपि सतीन्द्रजालमपरं यद्यस्ति तेनापि किम् // 71 // अनोपमेयोत्कर्ष ऋजूक्त्यैव च निबद्ध इति सेयं प्रपञ्चोक्तिच्छायया निषेधे ऋजुर्नाम प्रतिवस्तूक्तिः साम्यभेदः // ....... . दातार इत्यादि / यदि दातारः सन्ति तदा कल्पशाखिभिः कल्पवृक्षपञ्चकैरलं निष्फलम् / दानस्य दातृभिरेव निष्पादनात् / यद्यर्थिनो याचकाः सन्ति तर्हि तृणैः किम् / याचकानामेव तृणकार्यकरत्वात् / एवमन्यत्रापि / चेद्यदि सन्तः सज्जनातदा अमृतेन किम् / खला दुर्जना यदि तदा कालकूटेन विषेण किम् / दृशोर्नेत्रयोः। पन्थानं मार्ग यदि प्रिया एति आयाति तदा कर्पूरशलाकया कि कर्पूरघटितकाष्ठिकया किम् / कर्पूराजन्या वा किम् / संसारेऽपि सति विद्यमाने तस्मादपरमिन्द्रजालमस्ति सेनापि किम् / सकलेन्द्रजालात्संसारस्य महत्त्वात् / 'चन्द्रादिकाष्ठयानयोः शलाका' इति मेदिनीकारः / अत्र दातृप्रभृतेरुत्कर्ष उपमाने च निषेध ऋजूक्त्यैव //