________________ 442 काव्यमाला / प्रपञ्चोक्तिच्छायया विधावृज्वी यथा-- 'तरङ्गय दृशोऽङ्गने पततु चित्रमिन्दीवरं - स्फुटीकुरु रदच्छदं व्रजतु विद्रुमः श्वेतताम् / क्षणं वपुरपावृणु स्पृशतु काञ्चनं कालिका- मुदञ्चय मुखं मनाग्भवतु च द्विचन्द्रं नमः / / 69 // अत्र प्रथमचतुर्थपादयोरुपमानोपमेयसाम्यं वैकृतम् , द्वितीयतृतीयपादयोरुपमानापकर्षः प्रकृत इति / सेयं प्रपञ्चोक्तिच्छायया विधावृज्वी . नाम प्रतिवस्तूक्तिः साम्यभेदः.॥ / तरङ्गयेत्यादि / हे अङ्गने रूपवति, दृशो नेत्राणि तरङ्मय चञ्चलानि कुरु / ततो नीलमिन्दीवरं पद्मं पततु भगवद्भवतु / रदच्छदं दशनाच्छादकमधर स्फुटीकुरु व्यक्तीकुरु / ततो विद्रुमः प्रवालवृक्षः श्वेततां व्रजतु यातु / क्षणं मुहूर्तमानं वपुः शरीरमपावृणु निरावरणं कुरु / ततः काञ्चनं कनकं (कर्तृ) कालिकां श्यामिकां स्पृशतु / मनाक् अल्पं यथा स्यादेवं मुखमुदञ्चयोत्तोलय च / ततो नभ आकाशं द्विचन्द्रं चन्द्रद्वयान्वितं भवतु / तरङ्गयेति तरङ्गशब्दात् 'तत्करोति-' इति णिचि लोटि रूपम् / 'ओष्टाधरौ तु रदनच्छदौ' इत्यमरः / 'विद्रुमो ना प्रवालेऽपि' इति मेदिनीकारः। 'कालिका श्यामिका चण्ड्याः (1) इति शाश्वतः / द्वौ चन्द्री यत्र तद्विचन्द्रम् / अत्र विकृततया प्रकृततया च प्रपञ्चोक्तिच्छाया वैकृतमसाहजिकम् / प्रकृतः सहजः / विधिता तु व्यक्तैव // सैव विधौ वक्रा यथा.. एकोणमिअभुअभने विमलकवोले वअणम्मि तुइ मिअच्छि तिरिन्छणअणे / - एहु ससिबिम्बउ कलङ्गगारउ पण्डरउ खित्तउ ....... उप्परेण भमाइअ णिमञ्छणखप्परउ // 70 // एकोनामितभ्रूभङ्गे विमलकपोले . वदने तव मृगाक्षि तिर्यनयने / एतच्छशिबिम्बं कलङ्कागारं पाण्डरमुत्क्षिप्त मुपरि भ्रामयित्वा निर्मञ्छनकर्परम् // ].. ..