________________ 4 परिच्छेदः। सरखतीकण्ठाभरणम् / 441 दृष्टान्तोक्तिच्छायया निषेधे ऋजुः पूर्वा यथा- . 'न मालतीदाम विमर्दयोग्यं न प्रेम नव्यं सहतेऽपराधान् / म्लानापि न म्लायति केसरसग्देवी न खण्डप्रणया कथंचित् 67 अत्र न मालतीदाम विमर्दयोग्यमिति, म्लानापि न म्लायति केसरस्रगिति च ऋजूक्तिभ्यामेव पूर्व दृष्टान्तरूपे वस्तुनी प्रतिषिध्योत्तरकालं न प्रेम नव्यं सहतेऽपराधानिति, देवी न खण्डप्रणया कथंचिदिति च दार्टान्तिकरूपे प्रतिवस्तुनी ऋजूक्त्यैव प्रतिषिद्धे / सेयं निषेधे ऋज्वी पूर्वा च दृष्टान्तोक्तिच्छायया प्रतिवस्तूक्तिः साम्यभेदः / -- न मालतीत्यादि / मालतीमाला विमर्दयोग्या नास्ति / अतिमृदुत्वात् / तद्वनव्यं नवीनं प्रेम अपराधान्न सहते / केसरस्रक बकुलमाला म्लानापि सती न म्लायति अतिमलिना न भवति तद्वद्देवी कथंचिन्न खण्डप्रणया न खण्डितप्रश्रया भवति। 'नव्यो नवीनो नूतनो नवः' इत्यमरः / अत्र दृष्टान्तोक्तिच्छायया निषेधः / पूर्वत्वमृजुत्वं च स्फुटमेव // सैवोत्तरा च वक्रा च यथा 'मानुषीषु कथं वा स्यादस्य रूपस्य संभवः / न प्रभातरलं ज्योतिरुदेति वसुधातलात् // 68 // अत्र कथं वा स्यादिति वक्रया निषेधोक्त्या दार्टान्तिकमभिधाय पश्चान्न वसुधातलोत्प्रभातरलं ज्योतिरुदेतीति वैयधिकरण्यवक्रयैव निषेधोक्त्या दृष्टान्तोऽभिहितः / सेयं निषेधे वनोत्तरा च दृष्टान्तोक्तिच्छायया प्रतिवस्तूक्तिः साम्यभेदः // मानुषीष्वित्यादि / विवृतोऽयमभावालंकारे / अत्र कथं वा स्यादिति वितर्को. त्यतया चक्रोक्तिनिषेधरूपा, उत्तरार्धे तादृशज्योतिषो भूमावसंभवेऽतिरूपवत्या भूमावसंभव उक्त इति वैयधिकरिण्यं, वक्रता च //