________________ 440 काव्यमाला / सा दृष्टान्तोक्तिच्छायया विधावृजुः पूर्वा च यथा... 'तम्मन्ये हिमभासस्तारानिकरेण कान्तिरुच्छेद्या / यत्तस्या(एतस्या) मुखमेतद्यदि युवतिमुखानि विजयन्ते // 65 // अत्र तदिन्दोस्तारकोपेन कान्तिरुच्छेद्या इति पूर्वमृजूक्त्या दृष्टान्तरूपं पश्चाद्यदेतन्मुखं युवतिमुखानि विजयन्त इति ऋजूक्त्यैव दा न्तिकरूपं प्रतिवस्तूपन्यस्तमिति सेयं दृष्टान्तोक्तिच्छायया विधावृज्वी पूर्वा च प्रतिवस्तूक्तिः साम्यभेदः // ... प्रतीति / सा प्रतिवस्तूक्तिदृष्टान्तोतिप्रपञ्चोक्लोइछायां धर्म गाहते बिभर्ति तयोश्छायावाहिनीत्यर्थः // तन्मन्ये इत्यादि / एतस्या एतन्मुखं यदि युवतिमुखानि (कर्तृणि) विजयन्ते तत्तदा हिमभासश्चन्द्रस्य कान्तिस्तारानिकरेणोच्छेयेत्यहं मन्ये / इह कर्मानुमितिरध्याहार्या / विजयन्त इत्यत्र ‘विपराभ्यां जेः 1 / 3 / 19 / ' इति तङ् / अत्र प्रथममृजूक्त्या दृष्टान्तः, पश्चाद्दार्टान्तिकमृजूक्त्यैव प्रतिवस्तूपन्यासः / तथा च दृष्टान्तोक्तिच्छाया व्यक्तव, विधिमुखतापि व्यक्तव // सैवोत्तरा वक्रा च यथा. 'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य / / .: दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः // 66 // ' . . अत्र शुद्धान्तदुर्लभमिति वक्रोक्त्या पूर्वं दान्तिकरूपं वस्तूपन्यस्य पश्चाइरीकृताः खलु गुणैरिति वक्रोक्त्यैव दृष्टान्तरूपं प्रतिवस्तूपन्यस्तमिति सेयं दृष्टान्तोक्तिच्छायया विधौ वनोत्तरा च प्रतिवस्तूक्तिः सा म्यभेदाः / / - शुद्धत्यादि / यद्याश्रमवासिनो जनस्य वपुरिदं शुद्धान्तेऽन्तःपुरे दुर्लभमस्ति तदा खलु निश्चयेन वनलताभिरुद्यानलता गुणैर्दूरीकृताः सन्ति / 'शुद्धान्तश्चावरोधश्च' इत्यमरः / अत्र शुद्धान्तदुर्लभपदेनेदृशं रूपमन्तःपुरेऽपि नास्तीति वक्रोक्त्या प्रतिपादितपूर्व दार्टीन्तिके / उत्तरार्धेऽपि वक्रोक्त्यैच दृष्टान्तकथनमिति दृष्टान्तोक्तिच्छायत्वविधिता तु स्फुदैव / /