________________ 4 परिच्छेदः / सरस्वतीकण्ठाभरणम् / 439 बाहुलकात्पाक्षिक इडागमः / यद्वा भरितः संजातभरः / तारकादित्वादितच् / 'प्रतिबिम्बं प्रतिमा' इत्यमरः / अत्र नेत्रयोरुपमेययोर्मदताम्रत्वं वैकृत उत्कर्षः स्फुट एव॥ सैवोपमेंयापकर्षापत्त्या यथा_ 'मृगं मृगाङ्कः सकलं सदाङ्के बिभर्ति तस्यास्तु मुखं कदाचित् / कपोलदेशे मृगनाभिपत्रमियान्सखे तस्य ततोऽपकर्षः // 13 // ' अत्र मृगाङ्कः सकलं मृगं सदाङ्के बिभर्ति, तन्मुखं च कदाचिन्मृगनाभिमात्रजपत्रमेवेत्युपमेयस्य वाचनिक्यपकर्षापत्तिः प्रतीयते / सेयमुपमेयापकर्षापत्त्या विकृता नाम प्रपञ्चोक्तिः साम्यभेदः // मृगमित्यादि / हे सखे, तस्य मुखस्य ततश्चन्द्रादियानेतावान्प्रकर्षः / तमेवाह / मृगाङ्कश्चन्द्रोऽङ्के कोडे सदा सकलं मृगं बिभर्ति / तस्याः पुनर्मुखं (कर्तृ), कपोलदेशे मृगनाभेः कस्तूरिकायाः पत्रं पत्रावली कदाचिद्वहति / इह मुखस्योपमेयस्य वाचनिकी वचनतात्पर्यपर्यवसन्नापकर्षापत्तिः / कलङ्किना सममनयोरल्प एवोत्कर्ष इति हि वचनमपकर्षबोधकमेव / विकृतता च कस्तूरीपत्राधानात् // सैवोपमेयस्य साम्यापत्त्योपमानोत्कर्षेण च यथा'न मर्त्यलोकस्त्रिदिवात्प्रतीयते म्रियेत नाग्रे यदि वल्लभो जनः / निवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेज्जीवत एव जीवति // 64 // ' अनोपमेयस्य यथोक्तधर्मयोगे सत्युपमानेन पूर्वार्धे साम्यमुत्तरार्धे तु किंचिदुत्कर्षो भवति / सेयं यथोक्ता विकृता नाम प्रपञ्चोक्तिः साम्यमेदः // न मयेत्यादि / विवृतोऽयमभावालंकारे / इहोपमेयस्य मर्त्यलोकस्य यथोक्तधर्मस्याग्रे वल्लभमरणाभावरूपस्य योगे सत्युपमानेन त्रिदिवेन तौल्यमग्रे त्रिदिवप्रयोजननिवृत्त्युक्तेरुत्कर्ष एव ज्ञायते / वल्लभस्याग्रे मरणाभावाशंसनया विकृतता // प्रतिवस्तूक्तेर्भेदप्रकारानाह प्रतिवस्तूक्तिरप्यसिन्ज्वी वक्रा च कथ्यते। दृष्टान्तोक्तेश्च सा छायां प्रपञ्चोक्तेश्च गाहते // 40 //