________________ काव्यमाला। उपमानोपमेययोः साम्यापत्त्या विकृता यथा'घरिणीए महाणसकम्मलग्गमसिमलिइएण हत्थेण / छित्तं मुहं हसिज्जइ चन्दावत्थं गजं पइणा // 61 // .. [गृहिण्या महानसकर्मलममसीमलिनितेन हस्तेन / स्पृष्टं मुखं हसते चन्द्रावस्थां गतं पत्या // ] अत्रोत्कृष्टोपमेयस्य मसीमालिन्यवैकृतेनोपमानसाम्यमापद्यमानं प्रतीयते / सेयमुपमानोपमेययोः साम्यापत्त्या विकृता नाम प्रपञ्चोक्तिः साम्यमेदः // . . घरिणीत्यादि / 'गृहिण्या महानसकर्मलग्नमसीमलिनितेन हस्तेन / स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या // इह कयाचिन्नायिकया चन्द्रेण स्पर्धमानया पाकासक्तया श्यामितहस्तेन मुखे स्पृष्टे सति नायकस्तन्मुखस्य चन्द्रसमत्वं सूचयन्नुपहसतीत्येकापरस्यै कथयति-गृहिण्या इति / गृहिण्याः पाकक्रियालग्नश्यामभागश्यामितेन करेण स्पृष्टं मुखमत एव चन्द्रावस्थां गतं पत्या हस्यते / 'पाकस्थानमहानसे' इत्यमरः। अत्र मसीमालिन्यं वैकृतं तत एव मुखचन्द्रयोः साम्यापत्तिः // विकृतैवोपमेयस्योत्कर्षापत्त्या यथा'रत्तुप्पलदलसोहा तीअ वि चसअम्मि सुरहिवारुणीभरिए / मअतम्बेहि मणहरा पडिमापडिएहि लोअणेहि लहुइआ // 62 // रक्तोत्पलदलशोभा तस्या अपि चषके सुरभिवारुणीभरिते। मदताम्राभ्यां मनोहरा प्रतिमापतिताभ्यां लोचनाभ्यां लघ्वीकृता // ] अत्रोपमेयस्य मधुमदताम्रत्ववैकृत उत्कर्षः प्रतीयते / सेयमुपमेयोत्कर्षेण विकृता नाम प्रपञ्चोक्तिः साम्यभेदः // रत्तुप्पलेत्यादि / इह कयापि नायिकया लोचनाभ्यां चषके सुगन्धिमद्यभृते प्रतिमया प्रतिबिम्बेन पतिताभ्याम् / अत एव मदेनाताम्राभ्यामतिलोहिताभ्यां मनोज्ञा रक्कोत्पलदलस्य शोभा लघ्वीकृतात्यल्पा कृता / जितेति यावत् / 'चषकं पानपात्रं स्यात्' इति हारावली / 'सुरा "वरुणात्मजा' इत्यमरः / भरित इत्यत्र