________________ 1 परिच्छेदः / सरखतीकण्ठाभरणाम् / सैवोपमानापकर्षेण यथा--......... 'अन्यतो नय मुहूर्तमाननं चन्द्र एष सरले कलामयः / मा कदाचन कपोलयोर्मलं संक्रमय्य समतां नयिष्यति // 59 // ' अत्रोपमानस्य मलिनताकृतोऽपकर्षः प्रकृत एव प्रतीयते / सेयमुपमानापकर्षेण प्रकृता नाम प्रपञ्चोक्तिः साम्यभेदः / अन्यत इत्यादि / हे सरले ऋजुप्रकृतिके, आननं मुखं मुहूर्तमन्यतोऽन्यत्र नय प्रापय / अत्र हेतुः / एष चन्द्रः कलामयः कंदाचन कपोलयोर्मलं संक्रमय्य मेलयित्वा मा समतां साम्यं नयिष्यति प्रापयिष्यति / अन्यस्यान्यत्र संक्रमणे कलामयत्वं हेतुः / अन्यत इति सप्तम्यां तसिः / इह चन्द्रस्योपमानस्य कलङ्करूपमलसंबन्धकृतोऽपकर्षः साहजिक एव ज्ञायते // सैवोपमानस्य किंचिदुत्कर्षेण यथा'आपातमात्ररसिके सरसीरुहस्य किं बीजमर्पयितुमिच्छसि वापिकायाम् / कालः कलिर्जगदिदं नकृतज्ञमज्ञे __ स्थित्वा हरिष्यति तवैव मुखस्य शोभाम् // 60 // ' _ अत्रोपमानस्योपमेयादीषदुत्कर्षः प्रकृत एव प्रतीयते / सेयमीषदुत्कर्षेण प्रकृता नाम प्रपञ्चोक्तिः साम्यभेदः // आपातेत्यादि / हे आपातमात्ररसिके एतत्क्षणमात्ररसवशे हे नायिके, सरसीरुहस्य पद्मस्य बीजं वापिकांयामर्पयितुं क्षेप्तुं किमिच्छसि / किं तु नेदमहमित्यर्थः / अत्र हेतुः / अयं कालः कलियुगाख्यः, अत एवेदं जगन्नकृतज्ञममर्यादम् / ततो हे अज्ञे, स्थित्वा कालान्तर इदं सरसीसहं, तवैव मुखस्य शोभामथ च संपदं हरिष्यति ग्रहीष्यति / जेष्यतीति यावत् / 'आपातः पुंसि तत्कालं' इति मेदिनीकारः / 'मर्यादावान्कृतज्ञः' इति च / इह पद्मस्योपमानस्य मुखादुपमेयात्किंचिदुत्कर्षः साहजिक एव विवक्षितः॥ . ... 1. सुभाषितावली तु. :स नेष्यति' इति पाठ ! . . .. . . .