________________ काव्यमाला / सोपमानोपमेययोः साम्येन प्रकृता यथा 'अरण्यबीजाञ्जलिदानलालिता___स्तथा च तस्यां हरिणा विशश्वसुः / / यथा तदीयैर्नयनैः कुतूहला त्पुरः सखीनाममिमीत लोचने // 57 // ' अत्र मृगलोचनोपमानानां तल्लोचनोपमेययोश्च साम्यमविकृतानामेव प्रतीयते / सेयं सामान्येन प्रकृता नाम प्रपञ्चोक्तिः साम्यभेदः // - साम्येति / उपमानोपमेययोः साम्येनोत्कर्षणापकर्षेण च प्रपञ्चोक्तिः / सा च क्वचित्प्रकृता स्वभावसिद्धा, क्वचिद्विकृतोपाधिकी // अरण्येत्यादि / तस्यां गौर्या च तथा तेन प्रकारेण हरिणा विशश्वसुः विश्वासं जग्मुः / कीदृशाः। अरण्यबीजस्य अंडोरीति ख्यातस्याञ्जलिदानेन लालिता विलासिताः। तदनलिस्थनीवारधान्यभक्षका इत्यर्थः / यथा सा गौरी तदीयैर्मृगसंबन्धिभिनेत्रैरग्रे सखीनां लोचनेऽमिमीत समीचकार कौतुकात् / अरण्ये बीजानि यस्य तदरण्यबीजम् / विशश्वसुरिति विपूर्वात् 'श्वस प्राणने' इत्यस्मालिट्यसि रूपम् / अमिमीतेति 'माङ् माने' णिचि लुङि चङि रूपम् / इहाविकृतता मृगलोचनानां सहजसौकर्यात् / अत एव प्रकृतता प्रपञ्चोक्तिरिवादेरप्रयोगात् // प्रकृतैवोपमानोत्कर्षेण यथा.. 'गर्वमसंवाह्यमिमं लोचनयुगलेन वहसि किं मुग्धे / सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि // 58 // - अत्र तव द्वे लोचनोत्पले एव, सरसां पुनर्बहूनि नीलोत्पलानीत्युपमानोत्कर्षः प्रकृत एव प्रतीयते / सेयमुपमानोत्कर्षेण प्रकृता नाम प्रपञ्चोक्तिः साम्यभेदः / / गर्वमित्यादि / ननु हे नायिके, लोचनद्वयेनासंवाह्यं गर्व त्वं किं वहसि / न वोढुमर्हसीत्यर्थः / दिशि दिशि प्रतिदिशं सरःसु तडागेषु ईदृशानि त्वन्नेत्रतुल्यानि नीलोत्पलानि सन्ति / अत एव गर्वभङ्गः / 'स्यान्मर्दनं संवाहनम्' इत्यमरः / इह नीलोत्पलानामुत्कर्षः साहजिक एव / नेत्रद्वयापेक्षया तेषां बहुत्वात् // 1. प्रमादोक्तिरेषा / जौहोत्यादेर्माधातोरिति तु न्याय्यम्. ..