________________ 434 काव्यमाला। अत्र दीपशिखादिद्रव्ययोगकृतं साम्यं सामान्यविशेषरूपौ संचारिणी दीपशिखेति च राजमार्गादृ इति च दृष्टान्तौ पूर्वमेवोपन्यस्तौ / सेयं विशेषतो द्रव्ययोगनिमित्तसाम्या पूर्वा नाम दृष्टान्तोक्तिः साम्यभेदः // संचारिणीत्यादि / सा पतिंवरा इन्दुमती यं यं भूमिपालं व्यतीयाय तत्याज स स भूमिपालो विवर्णभावं विवर्णत्वं प्रपेदे लेभे / यथा रात्री संचरिणी दीपशिखा यं यं राजमार्गाहें व्यतिक्रामति स स राजमार्गाटो वैवर्ण्य प्राप्नोति तथेत्यर्थः / व्यतीयायेति व्यतिपूर्वात् 'इण् गतो' इति धातोलिटि रूपम् / अो अटारीति प्रसिद्धः। 'स्यादट्टः क्षोममस्त्रियाम्' इत्यमरः / इह संचरणत्वसामान्ययोगात्सामान्यरूपता, राजमार्गाः इति विशेषरूपता // द्रव्ययोगनिमित्तसाम्यैव सामान्यत उत्तरा यथा'उज्ज्वलालोकया स्निग्धा त्वया त्यक्ता न राजते / मलीमसमुखा वर्तिः प्रदीपशिखया यथा // 55 // ' अत्र द्रव्ययोगकृतं साम्यं सामान्यरूपश्च प्रदीपः पश्चात्प्रदीपशिखावर्तिदृष्टान्तः / सेयं यथोक्तरूपोत्तरा नाम दृष्टान्तोक्तिः साम्यभेदः // उज्वलेत्यादि / त्वया त्यक्ता स्निग्धा स्नेहवती सखी न राजते इति प्रियायाः सखी प्रति पत्युर्वचनम् / त्वया कीदृश्या / उज्ज्वलो निर्मल आलोको दर्शनं यस्यास्तया / स्निग्धा कीदृशी / मलीमसं म्लानं मुखं यस्याः सा / यथा प्रदीपशिखया त्यक्ता वतिर्न शोभते तथेत्यर्थः। प्रदीपशिखया कीदृश्या / उज्वल आलोक उद्द्योतो यस्यास्तया / वर्तिः कीदृशी / स्निग्धा स्नेहवती, स्नेहस्तैलम् / म्लानमुखी च / 'मलीमसं तु मलिनम्' इत्यमरः / इह नायिकाशिखयोद्रव्ययोर्योगः / दृष्टान्तस्य सामान्यरूपता पश्चादुपादीयमानता च व्यक्तैव // / सैव क्रियागुणयोगनिमित्तसाम्या विशेषतो यथा'तो ताण हअच्छाअं णिच्चललोअणसिहं पउत्थपआवम् / आलेक्खपईवाणं व णिअअं पइइचडुलत्तणं पि विअलिअम् 56' / ततस्तेषां हतच्छायं निश्चललोचनशिखं प्रोषितप्रतापम् / . आलेख्यप्रदीपानामिव निजकं प्रकृतिचटुलत्वमपि विगलितम् //