________________ 4 परिच्छेदः।] सरखत्रीकण्ठाभरणम् / - अव्वोच्छिण्णेति / इह सुभटानामुत्साहो विषमे दुष्करे स्खलितः सन्नधिक यथा स्यादेवमुद्धावति प्रकाशते / कीदृशः / अव्यवच्छिन्नो निरन्तरः सन् प्रसृतः, स्फुरिता शूरस्य सुभटस्य शौर्यस्य वा छाया ख्यातिः कान्तिर्वा यत्र सः। यथा महानदीनां स्रोतःप्रवाहो विषमे देशे स्खलितः सन्नधिकमुद्धावति उद्गच्छति सोऽपि निरन्तरं प्रसृतः, स्फुरिता सूरस्य छाया कान्तिः प्रतिबिम्बो वा यत्र सः / 'प्रतिबिम्बे च कान्तौ च ख्यातौ छायार्कयोषिति / ' इति मेदिनीकारः। (कार्यारम्मेषु संरम्भः स्थेयानुत्साह उच्यते।' इति भरतः।) अत्र तादृशनदीस्रोतसो विशेषरूपता // द्रव्यजातिनिमित्तसाम्या सामान्यतः पूर्वा दृष्टन्तोक्तिर्यथा'विसवेओ व्व पसरिओ जं जं अहिलेइ वहलधूमुप्पीडो / सामलइज्जइ तं तं रुहिरं व महोअहिस्स विडुमवेण्टम् (ढम्)५३' [विषवेग इव प्रसृतो यं यमभिलेढि( लीयते) बहलधूमोत्पीडः। श्यामलयति(लायते) तं तं (तत्तद्)रुधिरमिव महोदधेर्विद्रुमवेष्टम् (पीठम् ) // ] - अत्र धूमविषयोर्विद्रुमरुधिरयोश्च द्रव्यजातियोगकृतं प्रतीयमानं श्यामलायत इति धूमविषद्रव्ययोगजनितमभिधीयमानं सामान्यरूपं च साम्यम् / सेयं दृष्टान्तस्य पूर्वमेवोपन्यासाव्यजातियोगनिमित्तसाम्या सामान्यतः पूर्वा नाम दृष्टान्तीक्तिः साम्यभेदः // विसेति / इह बहलधूमोत्पीडो महाधूमसमूहो विषवेग इव प्रसृतो यद्यद्विएमपीठमभिलीयतेऽभिलाति गृह्णाति वा तत्तन्महोदधेर्विद्रुमपीठं श्यामलायते कज्जलीभवति / कीदृशम् / रुधिरमिव, इयं पूर्वदिशा। अभिलीयत इति अभिपूर्वात ली आश्लेषे देवादिकः... / 'स्यादुत्पीडः समूहेऽपि' इति रत्नकोषः / अत्र जाते व्यस्य सामान्यत एव साम्यमिति सामान्यरूपता दृष्टान्तस्य पूर्वमुपन्यासात्पूर्वता च // , सैव द्रव्ययोगनिमित्तसाम्या विशेषतो यथा 'संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिवरा सा / - नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः // 54 // 28 स. क.