________________ 432 काव्यमाला। सअलु इत्यादि / इह सत्पुरुषे मलिनता चिरं न तिष्ठति / कीदृशे / सकलोद्दयोतिता वसुधा येन तस्मिन् , समस्ते जीवलोके मर्त्यलोके विस्तीर्यमाणः प्रतापो यस्य तस्मिन् / मलिनता कीदृशी / विधानेन इतिकर्तव्यतया विधिना 'वांपादितोत्पादिता / रवाविव यथा सूर्ये मलिनता चिरं न तिष्ठति तथेत्यर्थः / कीदृशे / सकलोज्ज्वलीकृतवसुधे समस्तजीवलोके विस्तीर्यमाणः प्रतापः प्रतपनं यस्य तस्मिन् / मलिनता कीदृशी / विहाणं प्रातः तस्मात्पतितापि / इहासाधारण्यमेव विशेषः, पूर्वतापि समस्तक्रियया प्रथमतः साम्येन // गुणयोगनिमित्तसाम्या सामान्यत उत्तरा यथा____ 'रूपं तदोजखि तदेव वीर्य तदेव नैसर्गिकमुन्नतत्वम् / न कारणात्स्वाद्विभिदे कुमारः प्रवर्तितो दीप इव प्रदीपात् 55 __ अत्र रूपादिगुणयोगजन्मजनितं साम्यं सामान्यरूपश्च पश्चात्प्रदीपदृष्टान्त इति सामान्यतो गुणयोगनिमित्तेयमुत्तरा नाम दृष्टान्तोक्तिः साम्यभेदः // रूपमिति / कुमारो बालकोऽजः, स्वान्निजात्कारणात्पितुर्न बिभिदे न भेदं जगाम / अभेदे हेतुमाह-ओजस्वि दीप्तं तद्रूपं, सौकुमार्यं तदेव, वीर्य तेजस्तदेव, नैसर्गिक स्वाभाविकमुन्नतत्वमुच्छ्रितत्वं च / यथा दीपात्प्रवर्तित उत्पादितो दीपः खात्कारणाद्दीपान्न भिन्नो भवति / अत्रापि रूपादिकं तुल्यमेव / दृष्टान्तस्य प्रकृतवाक्यार्थपर्यवसाने सति पश्चादन्वय इत्युत्तरता // सैव क्रियागुणद्रव्ययोगनिमित्ता विशेषतो यथा--- 'अव्वोच्छिण्णपसरिओ अहिअं उद्धाइ फुरिअसूरच्छाओ। ( उच्छाहो सुभडाणं विसमक्खलिओ महाणईण व सोत्तो // 52 // ' [अव्यवच्छिन्नप्रसृतोऽधिकमुद्धावति स्फुरितशूर(शौर्य)च्छायः / __उत्साहः सुभटानां विषमस्खलितो महानदीनामिव स्रोतः // ] , अत्राव्यवच्छिन्नप्रसृत इति क्रियायोगनिमित्तं स्फुरितशौर्यच्छाय इति गुणयोगनिमित्तं स्फुरितसूर्यच्छाय इति द्रव्ययोगनिमित्तं च साम्यं सामान्यविशेषरूपश्च विषमस्खलितमहानदीस्रोतोदृष्टान्त इति विशेषतः क्रियादियोगनिमित्तेयमुत्तरा नाम दृष्टान्तोक्तिः साम्यभेदः / /