________________ 4 परिच्छेदः / ] सरस्वतीकण्ठाभरणम् / 431 द्वयोरिति / द्वयोरुपमानोपमेययोर्वचनरचनाभेदाद्यत्रौपम्यार्थतुल्यता ज्ञायते तत्साम्यमामनन्ति कथयन्ति / त[पमारूपकयोरतिव्याप्तिः / अत उक्तम्उपमेति / यद्यपि त्रिषु सादृश्यमस्ति तथापि प्रकारकृतो भेद इति भावः / तद्विभजते-तस्य विति / यद्यपि भेदानामानन्त्यादसंख्यं तत्साम्यं तथापि तिस्र उक्तयः प्रकारानुगमकास्तत्रेत्यर्थः // वस्त्विति / वस्तु वाच्यं किमप्युपन्यस्य तत्सधर्मणस्तेन तुल्यगुणस्य न्यसनादुदाहरणात्साम्यज्ञानं प्रतिवस्तूक्तिरित्यर्थः // पूर्वादीत्यादिपदेनोत्तरग्रहणं क्रियायोग एव निमित्तं तत्कृतसाम्यात् / स्थितेत्यादि / स भूपतिर्दिलीपस्तां सुरभिमन्वगच्छदनुगच्छति स्म / अनुगमनमेवाह—स कीदृशः / स्थितोऽवस्थितः, उच्चलितः प्रस्थितः, आसनवानुपविष्टः, जलाभिलाषी जलेच्छायुतश्च / जलाभिलायीतिपाठे ‘ला दाने' ताच्छीलिके णिनि 'आतो युक्-७।३।३३' इति युकि जलपानशील इत्यर्थः / तां कीदृशीम् / स्थिताम् , प्रयातां कृतगमनाम् , निषेदुषीमुपविष्टाम् , जलमाददानां गृह्णन्तीं च / छायेव यथा छाया कमप्यनुगच्छति तथेत्यर्थः / एतासां क्रियाणामेकचित्ततयानुगमार्थ धीर इत्युक्तम् / ननु छायेव स इति लिङ्गभेददोषदुष्टमेवेदम् / अतः कुतोऽलंकारतेत्यत उक्तम्अनाविष्टेति / अविवक्षितलिङ्गत्वात् / नहि लिङ्गविवक्षायामिह किंचित्प्रयोजनम् / इयं चोपमा लौकिकी / लोके च छायाया आवरकानुगमनैयत्यं नत्वन्यस्येति तावन्मात्रमेवोद्देश्यमिहेति न दोषः / तदिदमुक्तम्-अवश्येति / सर्वक्रियायाः प्रथमत एव साम्यात्पूर्वेयम् / उपमायामेक एव वाक्यार्थः, इह तु वाक्यार्थयोर्भेद इति भिन्नालंकारता // सैव क्रियागुणयोगनिमित्ता विशेषतः पूर्वा यथा'सअलुज्जोइअवसुहे समत्थजिअलोअवित्थरन्तपआवे / ठाइ ण चिरं रविम्मि व विहाणपडिआ वि मइलदा सप्पुरिसे 50' [सकलोद्दयोतितवसुधे समस्तजीवलोकविस्तीर्यमाणप्रतापे / तिष्ठति न चिरं रवाविव विधानपतितापि मलिनता सत्पुरुषे // ] अत्र जगदुद्द्योतनक्रिया प्रतापगुणयोगहेतुसाम्यमसाधारणश्च सूर्यदृष्टान्त इति विशेषतः क्रियागुणयोगनिमित्तेयं पूर्वा नाम दृष्टान्तोक्तिः साम्यभेदः //